73 रूपकाणामन्योन्यं भेदसिद्धये वस्तुभेदं प्रतिपाद्येदानीं नायकभेदः प्रतिपाद्यते—

नेता विनीतो मधुरस्त्यागी दक्षः प्रिंयवदः ।
रक्तलोकः शुचिर्वाग्मी रूढवंशः स्थिरो युवा ॥ १ ॥
477बुद्ध्युत्साहधृतिप्रज्ञाकलामानसमन्वितः ।
शूरो दृढश्च तेजस्वी शास्त्रचक्षुश्च धार्मिकः ॥ २ ॥

द्वितीयः परिच्छेदः478

वृत्तवर्तिष्यमाणकथनेन पूर्वोत्तरप्रकाशौ संगमयति रूपकाणामिति । एकार्थत्वेऽपि प्रत्यययोः प्रसिद्धिप्राचुर्येणाह नेता नायक इति । शुचिः बाह्यान्तःकरणयोर्मालिन्यरहितः । वाग्मी=समीचीनत्वे सति बहुभाषी । प्रख्याताभिजनो रूढवंशः । यौवनशाली युवा । निर्णययुक्तं ग्रहणं बुद्धिः । उद्योगहेतुः प्रयत्न उत्साहः । धृतिर्धैर्यम् । गीतादिः कला । मानोऽभिमानः ।

नेता=479नायकः । विनीतो=विनयवान् ।

यथा वीरचरिते—

यद् ब्रह्मवादिभिरुपासितवन्द्यपादे विद्यातपोव्रतनिधौ तपतां वरिष्ठे ।
दैवात् कृतस्त्वयि मया विनयापचारस्तत्र प्रसीद भगवन्नयमञ्जलिस्ते ॥480

74 मधुरः = प्रियदर्शनः । यथा तत्रैव—

राम राम नयनाभिरामतामाशयस्य सदृशीं समुद्वहन् ।
अप्रतर्क्यगुणरामणीयकः सर्वथैव हृदयंगमोऽसि मे ॥481

482त्यागी = सर्वस्वदायकः । यथा—

त्वचं कर्णः शिबिर्मांसं जीवं जीमूतवाहनः ।
ददौ दधीचिरस्थीनि नास्त्यदेयं महात्मनाम् ॥

दक्षः=क्षिप्रकारी । यथा—

स्फूर्जद्वज्रसहस्रनिर्मितमिव प्रादुर्भवत्यग्रतोरामस्य त्रिपुरान्तकृद्दिविषदां तेजोभिरिद्धं धनुः ।
शुण्डारः कलभेन यद्वदचले वत्सेन दोर्दण्डकस्तस्मिन्नाहित एव गर्जितगुणं कृष्टं च भग्नं च तत् ॥483

प्रियंवदः= प्रियमाषी । यथा तत्रैव—

उत्पत्तिर्जमदग्नितः स भगवान् देवः पिनाकी गुरु र्वीर्यं यत्तु न तद्गिरा पथि ननु व्यक्तं हि तत् कर्मभिः ।
त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः सत्यं ब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥484

रक्तलोकः । यथा तत्रैव—

त्रप्यास्त्राता यस्तवायं तनूजस्तेनाद्यैव स्वामिनस्ते प्रसादात् ।
485राजन्वन्तो रामभद्रेण राज्ञा लब्धक्षेमाः पूर्णकामाश्चरामः486 ॥487

75 488एवं शुचिवाग्मिरूढवंश्या अप्युदाहार्याः । तत्र शोचं नाम: मनोनैर्मल्यादिना कामाद्यनभिभूतत्वम् । यथा रघौ—

का त्वं शुभे कस्य परिग्रहो वा किं वा मदभ्यागमकारणं ते ।
आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति ॥489

वाग्मी । यथा हनुमन्नाटके—

बाह्वोर्बलं न विदितं न च कार्मुकस्य त्रैयम्बकस्य तनिमा तत एष दोषः ।
तच्चापलं परशुराम मम क्षमस्व डिम्भस्य दुर्बिलसितानि मुदे गुरूणाम् ॥490

रूढवंशो यथा—

ये चत्वारो दिनकरकुलक्षत्रसंतानमल्लीमालाम्लानस्तबकमधुपा जज्ञिरे राजपुत्राः ।
रामस्तेषामचरमभवस्ताडकाकालरात्रिप्रत्यूषोऽयं सुचरितकथाकन्दलीमूलकन्दः ॥491

स्थिरः=वाङ्मनःक्रियाभिरचञ्चलः492 । यथा वीरचरिते—

प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥493
यथा वा भर्तृहरिशतके—
प्रारभ्यते न खलु विघ्नभयेन नीचैः प्रारभ्य विघ्नविहता विरमन्ति मध्याः ।
76
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः 494प्रारब्धमुत्तमजना न परित्यजन्ति ॥495

युवा प्रसिद्धः । बुद्धिः=ज्ञानम् । गृहीतविशेषकरी तु प्रज्ञा । यथा मालविकाग्निमित्रे—

यद्यत् प्रयोगविषये भाविकमुपदिश्यते मया तस्यै ।
तत्तद् विशेषकरणात् प्रत्युपदिशतीव मे बाला ॥496
स्पष्टमन्यत् ।

  1. The reading found in the MSS. is -smṛti- (instead of dhṛti) which is also given as such by B.M. From Bh.Nṛ’s comments it appears that it should be dhṛti, and not smṛti.

  2. Only M.G.T. gives this heading.

  3. N.S.P. nāyako vinayādiguṇasaṃpanno bhavatīti. tatra vinītaḥ.

  4. ४।२१
  5. वी॰ च॰ २ । ३७
  6. A.T.A. tyāgaḥ = sarvasvadānam.

  7. वीरचरिते १ । ५३
  8. वी॰ च॰ २।३६
  9. ‘राजन्वत्यः’ इति पाठः.
  10. A.T.A. drāṇ nandantyaḥ pūrṇakāmāś carema.

  11. वी॰ च॰ ४।४४
  12. N.S.P. evaṃ śaucādiṣv apy udāhāryam. And the following portion given within brackets in N.S.P. (as here) is not found in A.T.A. too.

  13. १६।८
  14. १।३८
  15. अनर्घराघवे ३।२१
  16. A.T.A. -manaḥkāyādibhiḥ, and gives the example of prāra- bhyate first and then prāyaścittam, etc.

  17. ३।८
  18. ‘प्रारब्धमुत्तमगुणास्त्वमिवोद्वहन्ति’ इति पाठः क्वचित्.
  19. नीति॰ श्लो॰ २६
  20. १।५