90 ननु सत्यपि महति विकारहेतौ मृदुर्विकारो माधुर्यमित्युक्तम् । विकारच्छादको महान् गुणो गाम्भीर्यमित्युच्यते । तेन माधुर्यगाम्भीर्ययोरैक्यमेव प्राप्तम् । तत्राह मृदुविकारोपलम्भादिति । पूर्वत्र उपलभ्यमानोऽपि विकारो मृदुरित्येतावत् । उत्तरत्र विकारोपलम्भ एव नास्ति । तेन माधुर्यगाम्भीर्ययोर्नैकत्वमिति ।

अथ स्थैर्यम्—

व्यवसायादचलनं स्थैर्यं विघ्नकुलादपि ।

यथा वीरचरिते—

प्रायश्चित्तं चरिष्यामि पूज्यानां वो व्यतिक्रमात् ।
न त्वेव दूषयिष्यामि शस्त्रग्रहमहाव्रतम् ॥548

अथ तेजः—

अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि ॥ १३ ॥

यथा—

ब्रूत नूतनकूष्माण्डफलानां के भवन्त्यमी ।
अङ्गुलीदर्शनाद्येन न जीवन्ति मनस्विनः ॥

अथ ललितम्—

शृङ्गाराकारचेष्टात्वं सहजं ललितं मृदु ।

स्वाभाविकः शृङ्गारो मृदुः । तथाविधा शृङ्गारचेष्टा च ललितम् । यथा ममैव—

लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारमनोहरेण ।

  1. ३।८