91 किं वा ममेव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत तापम् ॥

अथौदार्यम्—

प्रियोक्त्याजीविताद् दानमौदार्यं सदुपग्रहः ॥ १४ ॥

प्रियवचनेन सह आ जीवितावधेर्दानमौदार्यं सतामुपग्रहश्च । यथा नागानन्दे—

सिरामुखैः स्यन्दत एव रक्तमद्यापि देहे मम मांसमस्ति ।
तृप्तिं न पश्यामि तवैव तावत किं मक्षणात् त्वं विरतो गरुत्मन् ॥549

सदुपग्रहो यथा—

एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥
(कुमार॰ ६।६३

अथ नायिका—

स्वान्या साधारणस्त्रीति तद्गुणा नायिका त्रिधा ।

तद्गुणेति यथोक्तसंभवे नायकसामान्यगुणयोगिनी नायिकेति । स्वस्त्री परस्त्री साधारणस्त्रीत्यनेन विभागेन त्रिधा ।

तत्र स्वीयाया विभागगर्भं सामान्यलक्षणमाह—

पौराचाररता साध्वी क्षमालज्जाविभूषिता ।550
मुग्धा मध्या प्रगल्भेति स्वीया शीलार्जवादियुक् ॥ १५ ॥

शीलं=सुवृत्तम् । पतिव्रताकुटिला लज्जावती पुराचारनिपुणा551 स्वीया नायिका ।

  1. ५।१५
  2. A.T.A. gives this half verse paurācāra-, etc. but is omitted by N.S.P. and by Bahurūpamiśra.

  3. N.S.P. puruṣopacāranipuṇā.