लज्जावती यथा—

लज्जापज्जत्तपसाहणाइं 555परचिंताणिप्पिवासाइं ।
अविणअदिम्मोहाइं धण्णाण घरे कलत्ताइं ॥

सा चैवंविधा स्वीया मुग्धा-मध्या-प्रगल्भाभेदात् त्रिविधा ।

93 लज्जा ।

लज्जापर्याप्तप्रसाधनानि परचिन्तानिष्पिपासानि ।
अविनयदिङ्मोहानि धन्यानां गृहे कलत्राणि ॥

अविनयदिङ्मोहानीति । एषामविनये दिङ्मोह एव । अविनयमार्गस्मरणमेव न विद्यत इत्यर्थः । सा चैवंविधेति । एतादृशसामान्यलक्षणयोगिनीत्यर्थः ।

  1. N.S.P. paratitti-, etc. (paratṛpti-, etc.), and -duṃmehāiṃ (durmedhāṃsi) in the next line.