93 लज्जा ।

लज्जापर्याप्तप्रसाधनानि परचिन्तानिष्पिपासानि ।
अविनयदिङ्मोहानि धन्यानां गृहे कलत्राणि ॥

अविनयदिङ्मोहानीति । एषामविनये दिङ्मोह एव । अविनयमार्गस्मरणमेव न विद्यत इत्यर्थः । सा चैवंविधेति । एतादृशसामान्यलक्षणयोगिनीत्यर्थः ।

तत्र—

मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।

प्रथमावतीर्णतारुण्यमन्मथा रमणे वामशीला सुखोपायप्रसादना मुग्धनायिका ।

मुग्धेतिसूत्रस्यायमर्थः । यस्या वयश्च कामश्च नूतनो भवति, या च रतौ वामा भवति,556 क्रोधेऽपि557 मृदुर्भवति, सा मुग्धेति । तथैव व्याचष्टे प्रथमावतीर्णेत्यादिना ।

तत्र वयोमुग्धा यथा—

विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं रेखोद्भासिकृतं वलित्रयमिदं न स्पष्टनिम्नोन्नतम् ।
मध्येऽस्या ऋजुरायतार्धकपिशा रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते ॥

यथा च ममैव—

उच्छ्वसन्मण्डलप्रान्तरेखमाबद्धकुड्‏मलम् ।
अपर्याप्तमुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥

काममुग्धा यथा—

दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।

  1. yā ca ratau vāmā bhavati is missing in T.MS. M.G.T. reads yathā ca instead of yā ca.

  2. Only Gr.MS. reads krodhe ’pi, whereas others read without api.