96 एवमिति । एवं मध्यायां धीरायाम् अधीरायां धीराधीरायामपि उदाहरणानि दर्शनीयानीति ।

अथास्या मानवृत्तिः—

धीरा सोत्प्रासवक्रोक्त्या मध्या साश्रु कृतागसम् ।
खेदयेद् दयितं कोपादधीरा परुषाक्षरम् ॥ १७ ॥

मध्याधीरा कृतापराधं प्रियं सोत्प्रासवक्रोक्त्या खेदयेत् । यथा माघे—

न खलु वयमनुष्य दानयोग्याः पिबति च पाति च यासकौ रहस्त्वाम् ।
व्रज विटपममुं ददस्व तस्यै भवतु यतः सदृशोश्चिराय योगः ॥566

अस्या मानवृत्तिरिति । एवंभूताया अस्या मानवृत्तिरित्यर्थः । 567भवतु यतः सदृशोश्चिराय योग इति । सादृश्यं चैवम् । इयमपि विटं त्वां रहः पिबति पाति चेति विटपा । अयमपि विटपः =पल्लवः । विटपायाः खलु विटपदानं सदृशं भवतीति ।

धीराधीरा साश्रु सोत्प्रासवक्रोक्त्या खेदयेत् । यथामरुशतके—

बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान् सर्वेऽपराधा मयि ।
तत् किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥568

अधीरा साश्रु परुषाक्षरं खेदयेत् । यथा—

यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कृथाः ।
खण्डिताधरकलङ्कितं प्रियं शक्नुमो न नयनैर्निरीक्षितुम् ॥

  1. ७।५३
  2. T.MS. and Gr.MS. read bhavati instead of bhavatu. Mallinātha’s commentary, the editions of Śiśupālavadha (VII.53) and other MSS. of Laghuṭīkā give it as bhavatu.

  3. श्लो॰ ५७