152
न चाति रसतो वस्तु दूरं विच्छिन्नतां नयेत् ॥ ३२ ॥
रसं वा न तिरोदध्याद् वस्त्वलंकारलक्षणैः ।

कथासंध्यङ्गोपमाभूषणादिभिः ।

वस्तुनो रसेन वा रसस्य वस्तुना वा तिरोधानं न कर्तव्यमित्याह न चेति । वस्त्वलंकारलक्षणैरित्यंशं विवृणोति कथेति767 ।

एको रसोऽङ्गी कर्तव्यो वीरः शृङ्गार एव वा ॥ ३३ ॥
अङ्गमन्ये रसाः सर्वे कुर्यान्निर्वहणेऽद्भुतम् ।

ननु च रसान्तरस्थायिनेत्यनेनैव रसान्तराणामङ्गत्वमुक्तम् । तन्न । यत्र रसान्तरस्थायी स्वानुभावविभावव्यभिचारियुक्तो भूयसोपनिबध्यते तत्र रसान्तराणामङ्गत्वम् । केवलस्थाय्युपनिबन्धे तु स्थायिनोऽङ्गिव्यभिचारितैव ।

रसेषु नियममाह एक इति । रूपकेषु एक एव रसोऽङ्गी । अन्ये सर्वे रसास्तस्याङ्गम् । स चाङ्गी वीरः शृङ्गारो वा । अङ्गरसेष्वद्भुतं निर्वहण एव कुर्यादित्यर्थः । चोदयति ननु चेति । पूर्वमङ्गिरसस्योपसंग्रहणात् स्थायिनेति रसान्तरस्थायी गृह्यत इत्युक्तम् । तेनैव रसान्तराणामङ्गत्वे सिद्धे सति अङ्गमन्ये रसाः सर्वे इति रसान्तराणामङ्गत्वं न वक्तव्यमिति चोद्यार्थः । परिहरति तन्नेति । विभावानुभावादिसंयोगाद् रसतामापन्नस्य इव तदसंयोगात् केवलीभूतस्यापि स्थायिनोऽङ्गत्वं वक्तुं पुनरपि768 रसग्रहणमित्यर्थः ।

दूराध्वानं वधं युद्धं राज्यदेशादिविप्लवम् ॥ ३४ ॥
संरोधं भोजनं स्नानं सुरतं चानुलेपनम् ।
अम्बरग्रहणादीनि प्रत्यक्षाणि नि निर्दिशेत् ॥ ३५ ॥

अङ्के नैवोपनिबध्नीयात् प्रवेशकादिभिरेव सूचयेदित्यर्थः ।

  1. N.S.P. does not seem to give correct reading. A.T.A. seems to give the reading herc as kathāsaṃdhyaṅgopamābhūṣaṇādibhiḥ.

  2. M.G.T., T.MS., Gr.MS. read punar api saṃgrahaṇam ity arthaḥ. Only Tri.MS. gives punar api rasagrahaṇam ity arthaḥ.

    A.T.A. reads the kārikā- portion here as aṅgam anyarasāḥ sarve. The expression rasa stands for rasībhāvayogya. In this context the following verse may be noted:

    ratyādayaḥ sthāyibhāvāḥ syur bhūyiṣṭhavibhāvajāḥ |
    stokair vibhāvair utpannās ta eva vyabhicāriṇaḥ ||
    (Saṃgītartnākara, Adyar, vol. IV, ch. VII. 1519)