153 ननु सर्वथैवानिर्देशो न युक्त इति चेत् प्रत्यक्षाणि न निर्दिशेदित्युक्तमित्याह अङ्के नैवोपनिबध्नीयादिति769 ।

नाधिकारिवधं क्वापि त्याज्यमावश्यकं न च ।

अधिकृतनायकवधं प्रवेशकादिनापि न सूचयेत् । आवश्यकं तु देवपितृकार्याद्यवश्यमेव क्वचित् कुर्यात् ।

क्वापीति सामान्यतो निषिद्धम् । तत्रावश्यकं तु देवपितृकार्यादि प्रवेशकादिना सूचयेदित्याह आवश्यकं त्विति ।

एकाहाचरितैकार्थं कुर्यादासन्ननायकम् ॥ ३६ ॥
पात्रैस्त्रिचतुरैरङ्कं तेषामन्तेऽस्य निर्गमः ।

एकदिवसप्रवृत्तैकप्रयोजनसंबद्धमासन्ननायकमबहुपात्रप्रवेशमङ्कं कुर्यात् । तेषां पात्राणामस्याङ्कस्यान्ते निर्गमः कार्यः ।

तेषामिति । अस्याङ्कस्यान्ते तेषां पात्राणां विनिर्गम इत्यर्थः ।

पताकास्थानकान्यत्र बिन्दुरन्ते च बीजवत् ॥ ३७ ॥
एवमङ्काः प्रकर्तव्याः प्रवेशादिपुरस्कृताः ।
पञ्चाङ्कमेतदवरं दशाङ्कं नाटकं परम् ॥ ३८ ॥

इत्युक्तं नाटकलक्षणम् ।

पताकास्थानकान्यत्राङ्के कुर्यात् । बीजयुक्तं बिन्दुमादावन्तेऽपि कुर्यादित्याह पताकास्थानकानीति । अयमङ्कविधानप्रकार इत्याह एवमिति । एतन्नाटकम् अवरं पञ्चाङ्कं परं दशाङ्कमिति नाटकस्याङ्केषु संख्यानियमं दर्शयति पञ्चाङ्कमिति । नाटकलक्षणं पूर्णमित्याह इत्युक्तमिति ।

  1. N.S.P. reads aṅkair naivopanibadhnīta. What is given in the text is according to Bh.Nṛ.’s pratīka.