दिव्यमर्त्ये स तद्रूपो मिश्रमन्यतरस्तयोः ।
सूचयेद् वस्तु बीजं वा मुखं पात्रमथापि वा ॥ ३ ॥

स स्थापको दिव्यं वस्तु दिव्यो भूत्वा मर्त्यं च मर्त्यरूपो भूत्वा मिश्रं च दिव्यमर्त्ययोरन्यतरो भूत्वा सूचयेत् । वस्तु बीजं मुखं पात्रं वा ।

दिव्यमर्त्ये इति। शुद्धदिव्यं वस्तु शुद्धदिव्यो भूत्वा मर्त्यं वस्तु मर्त्यो भूत्वा मिश्रं वस्तु दिव्यमर्त्ययोरन्यतरो भूत्वा=दिव्यो मर्त्यो वा भुत्वा सूचयेत् । सूचयंश्च तत्रापि वस्तु बीजं मुखं पात्रं वा सूचयेदित्यर्थः । तथा व्याचष्टे स स्थापक इत्यादिना