अथ नाटिका—

लक्ष्यते नाटिकाप्यत्र संकीर्णान्यनिवृत्तये ।

अत्र केचित्—

771अनयोश्च बन्धयोगादेको भेदः प्रयोवतृभिर्ज्ञेयः ।
प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये ॥772
इत्यमुं भारतीयं श्लोकमेको भेदः प्रख्यातो नाटिकाख्य इतरस्त्वप्रख्यातः प्रकरणिकासंज्ञो नाटीसंज्ञया द्वे काव्ये आश्रिते इति व्याचक्षणाः प्रकरणिकामपि मन्यन्ते । तदसत् । उद्देशलक्षणयोरनभिधानात् समानलक्षणत्वे च भेदाभावात् । वस्तुरसनायकानां प्रकरणाभेदात् प्रकरणिकायाः । अतोऽनुद्दिष्टाया नाटिकाया यन्मुनिना लक्षणं कृतं तत्रायमभिप्रायः । शुद्धलक्षणसंकरादेव तल्लक्षणे सिद्धे लक्षणकरणं संकीर्णा नाटिकैव कर्तव्येति नियमार्थं विज्ञायते ।

प्रकरणानन्तरमेव भाणाद्यनुक्त्वा नाटिकाया लक्षणवचने हेतुमाह लक्ष्यत इति । अर्थप्राप्तस्यापि नाटिकालक्षणस्य करणमन्यनिवृत्ति156 फलम् । नाटिकैव नाटकप्रकरणलक्षणसंकीर्णा विधेया नान्यदित्येवमर्थमिति । अन्यदपि संकीर्णमस्तीति किमु वक्तारः सन्ति । ओमित्याह अत्र केचिदिति । अन्योऽपि प्रबन्धभेदोऽस्तीति तेषां वचने मूलमिदमित्याह अनयोश्चेति । अनयोर्नाटकप्रकरणयोः बन्धयोगान्नाटीसंज्ञया आश्रिते द्वे काव्ये स्तः । तयोरेकः प्रबन्धभेदः प्रख्यातः । इतरस्त्वप्रख्यात इति तं773 भारतीयं श्लोकं व्याचक्षाणाः नाटिकाव्यतिरेकेण केचित् प्रकरणिकामपि मन्यन्ते । वस्तुतस्तु अस्य श्लोकस्यायमर्थः—अनयोर्नाटकप्रकरणयोः बन्धयोगादेको भेदो नाटीसंज्ञाश्रिते काव्ये भवति । स तु भेदः प्रख्यातो वा भवति । इतरो वा भवति । नायकस्य प्रख्यातत्ववशात् प्रख्यात इति वक्तुं शक्यते । इतिवृत्तस्य तु अप्रख्यातत्ववशादप्रख्यात इत्यपि वक्तुं शक्यत इत्यर्थः । तान्निराकरोति तदसदिति। हेतुमाह उद्देशलक्षणयोरिति । उद्देशलक्षणयोरनभिधानात् प्रकरणिकायाः । ननु नाटिकया774 समानलक्षणाक्रान्तत्वे क्वाप्यनभिधानं संभवतीति चेत् तत्राह समानेति । एकलक्षणाक्रान्तत्वमेव हि एकत्वे प्रयोजकम् । एवं सति भेदः उदाहरणभेदात्775 नातिरिच्यते । वस्तुरसनायका हि भेदहेतवः । ते तु पृथक्प्रबन्धत्वं नापादयन्ति । तेषां प्रकरणादभेदादिति । नाटिकाया अपि तर्हि उद्देशे सत्येव लक्षणकरणं युज्यते । न त्वनुद्देशे सत्यपीति चेत् तत्राह अत इति । न लक्षणं कर्तव्यमिति नाटिकालक्षणकरणम् । किं तर्हि । शुद्धयोः नाटकप्रकरणयोः लक्षणकरणादेव नाटिकाया अपि तत्संसर्गात्मनो लक्षणे सिद्धे पुनर्लक्षणकरणं मुनेः संकीर्णा नाटिकैव कर्तव्या नान्यदित्यन्यप्रबन्धनिवृत्तिफलमित्यर्थः ।

  1. See the Introduction. See Note 149a to Laghuṭīkā.

  2. ना॰ शा॰ [GOS] १८ । ५७
  3. Except in T.MS. in all others the reading is tam evaṃ bhāratīyaṃ ślokaṃ vyācakṣāṇāḥ. Abhinava also refers (as anye tu) to the division of nāṭikā and prakaraṇikā. (See Abhinavabhāratī, vol. II, page 434.)

  4. nanu nāṭikāyāḥ samānalakṣaṇākrāntatve ’pi is the reading in Gr.MS. and M.G.T. Tri.MS. gives it as nanu nāṭikayā samānalakṣaṇākrāntatve ’pi abhidhānaṃ saṃbhavatīti cet. What is given in the text is the reading I made on the basis of the T.MS.

  5. This amounts to saying that the difference is only of the illustration and not of the dramatic type. T.MS. and Tri.MS. read -bhedaṃ nātiricyate. Gr.MS. and M.G.T. read -bhedān nātiricyate (pañcamī) which seems to be appropriate here.

    There is a discussion on Nāṭikā in Prof. V. Raghavan’s Bhoja’s Śṛṅgāra Prakāśa, (1963, pp. 538–9) where this verse of Bharata anayoś ca bandhayogāt, etc. referred to by Dhanika, is also cited. But the significance and the meaning of the second line according to those who did not accept prakaraṇikā as a separate type, are explained only here by Bh.Nṛ.