155 इति । एवं च कुलजा वेश्या उभयमिति त्रेधा प्रकरणे नायिका । यथा वेश्यैव तरङ्गदत्ते कुलजैव पुष्पदूषितके । ते द्वे अपि मृच्छकटिकायामिति । कितवद्यूतकारादिधूर्तसंकुलं तु मृच्छकटिकादिवत् संकीर्णप्रकरणमिति ।

नायिका तु द्विधा तत्रेति ।770 तत्र प्रकरणे द्विविधा नायिका । क्वचित् कुलस्त्री क्वचिद् गणिका क्वचिदुभयमिति । यत्रोभयं तत्र नायकेन अनयोः कुलस्त्रीगणिकयोः नातिक्रमः कार्यः । कुलस्त्रीमात्रयुक्तं गणिकामात्रयुक्तं च प्रकरणं शुद्धम् । उभययुक्तं प्रकरणं संकीर्णमिति । क्वचिद् गणिका नायिकेत्युक्त्वा पुनर्वेश्या क्वापीति वचनं व्याकुलमिव । तत्राह वेशो भृतिरित्यादि । गणिकैव वेशान्वयाद् वेश्येत्यभिधीयत इत्यर्थः ।

अथ नाटिका—

लक्ष्यते नाटिकाप्यत्र संकीर्णान्यनिवृत्तये ।

अत्र केचित्—

771अनयोश्च बन्धयोगादेको भेदः प्रयोवतृभिर्ज्ञेयः ।
प्रख्यातस्त्वितरो वा नाटीसंज्ञाश्रिते काव्ये ॥772
इत्यमुं भारतीयं श्लोकमेको भेदः प्रख्यातो नाटिकाख्य इतरस्त्वप्रख्यातः प्रकरणिकासंज्ञो नाटीसंज्ञया द्वे काव्ये आश्रिते इति व्याचक्षणाः प्रकरणिकामपि मन्यन्ते । तदसत् । उद्देशलक्षणयोरनभिधानात् समानलक्षणत्वे च भेदाभावात् । वस्तुरसनायकानां प्रकरणाभेदात् प्रकरणिकायाः । अतोऽनुद्दिष्टाया नाटिकाया यन्मुनिना लक्षणं कृतं तत्रायमभिप्रायः । शुद्धलक्षणसंकरादेव तल्लक्षणे सिद्धे लक्षणकरणं संकीर्णा नाटिकैव कर्तव्येति नियमार्थं विज्ञायते ।

प्रकरणानन्तरमेव भाणाद्यनुक्त्वा नाटिकाया लक्षणवचने हेतुमाह लक्ष्यत इति । अर्थप्राप्तस्यापि नाटिकालक्षणस्य करणमन्यनिवृत्ति

  1. N.S.P. reads nāyikā tu dvidhā netuḥ. tara instead of netuḥ is the pratīka given by Bh.Nṛ.

  2. See the Introduction. See Note 149a to Laghuṭīkā.

  3. ना॰ शा॰ [GOS] १८ । ५७