156 फलम् । नाटिकैव नाटकप्रकरणलक्षणसंकीर्णा विधेया नान्यदित्येवमर्थमिति । अन्यदपि संकीर्णमस्तीति किमु वक्तारः सन्ति । ओमित्याह अत्र केचिदिति । अन्योऽपि प्रबन्धभेदोऽस्तीति तेषां वचने मूलमिदमित्याह अनयोश्चेति । अनयोर्नाटकप्रकरणयोः बन्धयोगान्नाटीसंज्ञया आश्रिते द्वे काव्ये स्तः । तयोरेकः प्रबन्धभेदः प्रख्यातः । इतरस्त्वप्रख्यात इति तं773 भारतीयं श्लोकं व्याचक्षाणाः नाटिकाव्यतिरेकेण केचित् प्रकरणिकामपि मन्यन्ते । वस्तुतस्तु अस्य श्लोकस्यायमर्थः—अनयोर्नाटकप्रकरणयोः बन्धयोगादेको भेदो नाटीसंज्ञाश्रिते काव्ये भवति । स तु भेदः प्रख्यातो वा भवति । इतरो वा भवति । नायकस्य प्रख्यातत्ववशात् प्रख्यात इति वक्तुं शक्यते । इतिवृत्तस्य तु अप्रख्यातत्ववशादप्रख्यात इत्यपि वक्तुं शक्यत इत्यर्थः । तान्निराकरोति तदसदिति। हेतुमाह उद्देशलक्षणयोरिति । उद्देशलक्षणयोरनभिधानात् प्रकरणिकायाः । ननु नाटिकया774 समानलक्षणाक्रान्तत्वे क्वाप्यनभिधानं संभवतीति चेत् तत्राह समानेति । एकलक्षणाक्रान्तत्वमेव हि एकत्वे प्रयोजकम् । एवं सति भेदः उदाहरणभेदात्775 नातिरिच्यते । वस्तुरसनायका हि भेदहेतवः । ते तु पृथक्प्रबन्धत्वं नापादयन्ति । तेषां प्रकरणादभेदादिति । नाटिकाया अपि तर्हि उद्देशे सत्येव लक्षणकरणं युज्यते । न त्वनुद्देशे सत्यपीति चेत् तत्राह अत इति । न लक्षणं कर्तव्यमिति नाटिकालक्षणकरणम् । किं तर्हि । शुद्धयोः नाटकप्रकरणयोः लक्षणकरणादेव नाटिकाया अपि तत्संसर्गात्मनो लक्षणे सिद्धे पुनर्लक्षणकरणं मुनेः संकीर्णा नाटिकैव कर्तव्या नान्यदित्यन्यप्रबन्धनिवृत्तिफलमित्यर्थः ।

तमेव संकरं दर्शयति—

तत्र वस्तु प्रकरणान्नाटकान्नायको नृपः ॥ ४३ ॥
प्रख्यातो धीरललितः शृङ्गारोऽङ्गी सलक्षणः ।

उत्पाद्येतिवृत्तत्वं प्रकरणधर्मः प्रख्यातनृपनायकादित्वं तु नाटकधर्म इति ।

  1. Except in T.MS. in all others the reading is tam evaṃ bhāratīyaṃ ślokaṃ vyācakṣāṇāḥ. Abhinava also refers (as anye tu) to the division of nāṭikā and prakaraṇikā. (See Abhinavabhāratī, vol. II, page 434.)

  2. nanu nāṭikāyāḥ samānalakṣaṇākrāntatve ’pi is the reading in Gr.MS. and M.G.T. Tri.MS. gives it as nanu nāṭikayā samānalakṣaṇākrāntatve ’pi abhidhānaṃ saṃbhavatīti cet. What is given in the text is the reading I made on the basis of the T.MS.

  3. This amounts to saying that the difference is only of the illustration and not of the dramatic type. T.MS. and Tri.MS. read -bhedaṃ nātiricyate. Gr.MS. and M.G.T. read -bhedān nātiricyate (pañcamī) which seems to be appropriate here.

    There is a discussion on Nāṭikā in Prof. V. Raghavan’s Bhoja’s Śṛṅgāra Prakāśa, (1963, pp. 538–9) where this verse of Bharata anayoś ca bandhayogāt, etc. referred to by Dhanika, is also cited. But the significance and the meaning of the second line according to those who did not accept prakaraṇikā as a separate type, are explained only here by Bh.Nṛ.