157 तत्र वस्तु प्रकरणादिति । नाटिकायाः प्रकरणधर्मः उत्पाद्येतिवृत्तत्वम् । नाटकधर्मः प्रख्यातनायकत्वम्, अङ्गी रसः सलक्षणशृङ्गार इति । तथा व्याचष्टे उत्पाद्येति ।

एवं च नाटकप्रकरणनाटिकातिरेकेण वस्त्वादेः प्रकरणिकायामभावादङ्कपात्रभेदाद्यदि भेदः, तत्र—

स्त्रीपायचतुरङ्कादि भेदकं यदि चेष्यते ॥ ४४ ॥
एकद्वित्र्यङ्कपात्रादिभेदेनानन्तरूपता ।

तत्र नाटिकेति स्त्रीसमाख्ययौचित्यप्राप्रं स्त्रीप्रधानत्वम् । कैशिकीवृत्त्याश्रयत्वाच्च तदङ्गसंख्ययाल्पावमर्शत्वेन चतुरङ्कत्वमप्यौचित्यप्राप्तमेव । विशेषस्तु—

देवी तत्र भवेज्ज्येष्ठा प्रगल्भा नृपवंशजा ॥ ४५ ॥
गम्भीरा मानिनी कृच्छ्रात् तद्वशान्नेतृसंगमः ।

एवं चेति । एवं वस्तुनेतृरसादीनां नाटिकात्वापादन इव प्रकरणिकाया वस्त्वादिः पृथङ्नास्ति । एवं स्थिते पात्रभेदादङ्कभेदाद्वा भेदो वक्तव्यः । सोऽपि नास्तीत्यर्थः । स्त्रीप्रायेति । स्त्रीप्रायत्वं स्त्र्यन्तसंज्ञाविधानादौचित्यप्राप्तम् । चतुरङ्कत्वमपि कैशिकीवृत्तिप्राधान्यात् तस्याश्चाङ्गसंख्यया भवत्यौचित्यप्राप्तम् । संधिसंख्यायामपि विमर्श संधेः स्वल्पत्वेन चतुरङ्कत्वमौचित्यप्राप्तम् । अतस्ततोऽपि विशेषो न भवति । ततो विशेषङ्गीकारे त्रिप्रभृत्यङ्कादेरपि776 प्रसज्यत्वात् सत्त्वप्रसङ्ग अनन्तत्वप्रसङ्गः इत्यर्थः । केन तर्हि विशेष इत्याकाङ्क्षायामाह विशेषस्त्विति ।

प्राप्या तु—

नायिका तादृशी मुग्धा दिव्या चातिमनोहरा ॥ ४६ ॥

  1. triprabhṛtyaṅkāder api prabandhasya is the reading in Tri.MS., and M.G.T., and it seems to be so even in Gr.MS. T.MS. however reads what is given in the text.