159 लास्याङ्गानि—

गेयपदं स्थितपाठ्यमासीनं पुष्पगण्डिका ।
प्रच्छेदकस्त्रिगूढं777 च सैन्धवाख्यं द्विगूढकम् ॥ ५२ ॥
उत्तमोत्तमकं चैव उक्तप्रत्युक्तमेव च ।
लास्ये दशविधं ह्येतदङ्गनिर्देशकल्पनम् ॥ ५३ ॥

शेषं स्पष्टमिति ।

अथ प्रहसनम्—

तद्वत् प्रहसनं त्रेधा शुद्धवैकृतसंकरैः ।

तद्वदिति भाणवद्वस्तुसंध्यङ्कानामतिदेशः778 ।

प्रहसनं तु शुद्धं विकृतं संकीर्णं चेति त्रेधा । यत्र अप्रच्युतस्वरूपाः पाषण्डकञ्चुकितापसा एव विभावाः तत् शुद्धम् । यत्र तु ते चोरभटादिवेषभाषादियोगिनः प्रच्युतस्वभावाः तद् विकृतम् । यत्र तु संकरः तत् संकीर्णमिति । तथैव दर्शयति तद्वदित्यादिना ।

तत्र शुद्धं तावत्—

पाषण्डिविप्रप्रभृतिचेटचेटीविटाकुलम् ॥ ५४ ॥
चेष्टितं वेषभाषाभिः शुद्धं हास्यवचोऽन्वितम् ।

पाषण्डिनः = शाक्यनिर्ग्रन्थप्रभृतयः । विप्राश्चात्यन्तमृजवः, जातिमात्रोपजीविनो वा प्रहसनाङ्गिहास्यविभावाः । तेषां च यथावत्स्वव्यापारोपनिबन्धनं चेटचेटीव्यवहारयुक्तं शुद्धं प्रहसनम् ।

  1. A.T.A. trimūḍham and dvimūḍhakam.

  2. N.S.P. vastusaṃdhisaṃdhyaṅgalāsyādīnām.