अथ डिमः—

डिमे वस्तु प्रसिद्धं स्याद् वृत्तयः कैशिकीं विना ।
नेतारो देवगन्धर्वयक्षरक्षोमहोरगाः ॥ ५७ ॥
भूतप्रेतपिशाचाद्याः षोडशात्यन्तमुद्धताः ।
रसैरहास्यशृङ्गारैः षड्‌भिर्दीप्तैः समन्वितः ॥ ५८ ॥
मायेन्द्रजालसंग्रामक्रोधोद्भ्रान्तादिचेष्टितैः ।
चन्द्रसूर्योपरागैश्च न्याय्ये रौद्ररसेऽङ्गिनि ॥ ५९ ॥
चतुरङ्कश्चतुःसंधिर्निर्विमर्शो डिमः स्मृतः ।

डिम संघात इति नायकसंघातव्यापारात्मकत्वात् डिमः । तत्रेतिहासप्रसिद्धमितिवृत्तम् । वृत्तयश्च कैशिकीवर्जास्तिस्रः । रसाश्च वीररौद्रबीभत्साद्भुतकरुणभयानकाः षट् । स्थायी तु रौद्रो न्यायप्रधानः । विमर्शरहिता मुखप्रति161 मुखगर्भनिर्वहणाख्याश्चत्वारः संधयः साङ्गाः मायेन्द्रजालाद्यनुभावसमाश्रयाः । शेषं प्रस्तावनादि नाटकवत् । एतच्च—

इदं त्रिपुरदाहे तु लक्षणं ब्रह्मणोदितम् ।
ततस्त्रिपुरदाहश्च डिमसंज्ञः प्रयोजितः ॥779
इति भरतमुनिना स्वयमेव त्रिपुरदाहेतिवृत्तस्य तुल्यत्वं दर्शितम् ।

डिमे तु देवगन्धर्वादयः षोडश नायकाः । प्रख्यातमितिवृत्तम् । रसास्तु हास्यशृङ्गाररहिताः षट् । वृत्तयः कैशिकीरहितास्तिस्रः । तत्र न्यायप्राप्तो रौद्रः अङ्गी रसः । न्यायप्राप्तिश्च रावणवत्परदारादिश्रद्धावैधुर्यम् । इतरे पञ्चापि रसास्तदङ्गम् । संधयो विमर्शरहिताः चत्वारः । अङ्का अपि तत्संख्यया चत्वारः । उदाहरणमेतस्य त्रिपुरदाहः । तथैव दर्शयति डिम इत्यादिना ।

  1. ना॰ शा॰ [GOS] ४।१० [उत्तरार्धमात्रम्]