अथ समवकारः—

कार्यं समवकारे स्यादामुखं नाटकादिवत् ॥ ६२ ॥
ख्यातं देवासुरं वस्तु निर्विमर्शास्तु संधयः ।
वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः ॥ ६३ ॥
द्वादशोदात्तविख्याताः फलं तेषां पृथक् पृथक् ।
बहुवीरा रसाः सर्वे यद्वदम्भोधिमन्थने ॥ ६४ ॥
अङ्कैस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ।
द्विसंधिरङ्कः प्रथमः कार्यो द्वादशनाडिकः ॥ ६५ ॥
चतुर्द्विनाडिकावन्त्यौ नाडिका घटिकाद्वयम् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ ६६ ॥
नगरोपरोधयुद्धेभवाताग्न्यादिषु विद्रवः782 ।
धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ ॥ ६७ ॥
वीथ्यङ्गानि यथालाभं कुर्यात् प्रहसने यथा ।

समवकीर्यन्तेऽस्मिन्नर्था इति समवकारः । तत्र नाटकादिवदामुखमिति समस्तरूपकाणामामुखप्रापणम् । विमर्शवर्जिताश्चत्वारः संधयः । देवासुरादयो द्वादश नायकाः । तेषां च फलानि पृथक् पृथग् भवन्ति । यथा समुद्रमन्थने वासुदेवादीनां लक्ष्म्यादिलाभः । वीरश्चाङ्गी । अङ्गभूताश्च सर्वे रसाः । त्रयोऽङ्काः । तेषां प्रथमो द्वादशनाडिकानिर्वृत्तेतिवृत्तप्रमाणः । यथासंख्यं चतुर्द्विनाडिकावन्त्यौ । नाडिका च=घटिकाद्वयम् । प्रत्यङ्कं च यथासंख्यं कपटाः । तथा163 नगरोपरोधयुद्धवाताग्न्यादिविद्रवाणां मध्य एकैको विद्रवः कार्यः । धर्मार्थकामशृङ्गाराणामेकैकः शृङ्गारः प्रत्यङ्कमेव विधातव्यः । वीथ्यङ्गानि च यथालाभं कार्याणि । बिन्दुप्रवेशकौ नाटकोक्तावपि न विधातव्यौ । इत्ययं समवकारः ।

समवकारे तु नाटकादिवत् प्रथममामुखं कार्यम् । प्रख्यातदेवासुरमितिवृत्तम् । विमर्शरहिताश्चत्वारः संधयः । वृत्तिषु चतसृष्वपि कैशिकी स्वल्पाभिधातव्या । देवदानवप्रभृतयो द्वादश नायकाः । तेषां नायकानां पृथक् पृथक् फलानि । अङ्गी तु रसो वीरः । इतरे तु रसास्तदङ्गम् । त्रयोऽङ्काः । त्रिष्वङ्केषु प्रथमोऽङ्को द्विसंधिः । त्रयोऽप्यङ्काः यथाक्रमं कपटैस्त्रिभिः, शृङ्गारैस्त्रिभिः, विद्रवैस्त्रिभिश्च युक्ता विधातव्याः । अत्र कालपरिमाणकथनमितिवृत्तपरिमाणाय । उदाहरणम् अम्भोधिमन्थनम् । तथा दर्शयति कार्यं समवकारे783 स्यादित्यादिना । किमस्यैवामुखयोगित्वं विशेषः । नेत्याह समस्तरूपकाणामिति ।

  1. This is the reading in A.T.A. and in B.M.’s.

  2. N.S.P. reads kāryaṃ samavakāre ’pi.