162 संधयः । अङ्कस्त्वेकः । अस्त्रीनिमित्तः संग्रामः । यथा जामदग्न्यजय इति । तथा दर्शयति ख्यातेतिवृत्तेत्यादिना ।781

अथ समवकारः—

कार्यं समवकारे स्यादामुखं नाटकादिवत् ॥ ६२ ॥
ख्यातं देवासुरं वस्तु निर्विमर्शास्तु संधयः ।
वृत्तयो मन्दकैशिक्यो नेतारो देवदानवाः ॥ ६३ ॥
द्वादशोदात्तविख्याताः फलं तेषां पृथक् पृथक् ।
बहुवीरा रसाः सर्वे यद्वदम्भोधिमन्थने ॥ ६४ ॥
अङ्कैस्त्रिभिस्त्रिकपटस्त्रिशृङ्गारस्त्रिविद्रवः ।
द्विसंधिरङ्कः प्रथमः कार्यो द्वादशनाडिकः ॥ ६५ ॥
चतुर्द्विनाडिकावन्त्यौ नाडिका घटिकाद्वयम् ।
वस्तुस्वभावदैवारिकृताः स्युः कपटास्त्रयः ॥ ६६ ॥
नगरोपरोधयुद्धेभवाताग्न्यादिषु विद्रवः782 ।
धर्मार्थकामैः शृङ्गारो नात्र बिन्दुप्रवेशकौ ॥ ६७ ॥
वीथ्यङ्गानि यथालाभं कुर्यात् प्रहसने यथा ।

समवकीर्यन्तेऽस्मिन्नर्था इति समवकारः । तत्र नाटकादिवदामुखमिति समस्तरूपकाणामामुखप्रापणम् । विमर्शवर्जिताश्चत्वारः संधयः । देवासुरादयो द्वादश नायकाः । तेषां च फलानि पृथक् पृथग् भवन्ति । यथा समुद्रमन्थने वासुदेवादीनां लक्ष्म्यादिलाभः । वीरश्चाङ्गी । अङ्गभूताश्च सर्वे रसाः । त्रयोऽङ्काः । तेषां प्रथमो द्वादशनाडिकानिर्वृत्तेतिवृत्तप्रमाणः । यथासंख्यं चतुर्द्विनाडिकावन्त्यौ । नाडिका च=घटिकाद्वयम् । प्रत्यङ्कं च यथासंख्यं कपटाः । तथा

  1. The protion on vyāyoga is missing in T.MS. and Gr.MS.

  2. This is the reading in A.T.A. and in B.M.’s.