165 मृगवदलभ्यां नायिकां नायकोऽस्मिन्नीहते=वाञ्छति इतीहामृगः । ख्याताख्यातं वस्तु । अन्त्यः=प्रतिनायको विपर्यासाद् विपर्ययज्ञानादयुक्तकारी विधेयः । स्पष्टमन्यत् ।

ईहामृगे तु प्रख्याताप्रख्यातमितिवृत्तम् । नरदिव्यौ नायकप्रतिनायकौ । प्रतिनायकस्तु भ्रमादयुक्तकारी । शृङ्गारमप्यत्र किंचित् किंचित् प्रदर्शयेत् । नायकस्य परमं संरम्भं प्रदर्श्य व्याजेन केनाप्यसौ निवर्तनीयः । वधप्राप्तेऽपि महात्मनि वधो न विधातव्यः । व्यायोगवत् समरः कार्यः । स त्विह788 स्त्रीहेतुर्भवति । एवमीहामृगः कर्तव्यः । तथा दर्शयति मिश्रमित्यादिना ।

इत्थं विचिन्त्य दशरूपकलक्ष्ममार्ग- मालोक्य वस्तु परिभाव्य कविप्रबन्धान् ।
कुर्यादयत्नवदलंकृतिभिः प्रबन्धं वाक्यैरुदारमधुरैः स्फुटमन्दवृत्तैः ॥ ७६ ॥
इति धनंजयविरचिते दशरूपके तृतीयः प्रकाशः

स्पष्टम् ।

इति श्रीविष्णुसूनोर्धनिकस्य कृतौ दशरूपावलोके रूपकलक्षणप्रकाशो नाम तृतीयः प्रकाशः समाप्तः

इत्थं दशरूपकलक्षणं चिन्तयित्वा इतिवृत्तं चावलोक्य महाकविप्रबन्धांश्च दृष्ट्वा तदानुगुण्येन रूपकोक्तैरलंकारैः स्फुटवृत्तैर्मन्दवृत्तैश्च उदारमधुरैर्वाक्यैः प्रबन्धं कुर्यादित्युपसंहरति इत्थमिति ।

इति धनिककृतस्य दशरूपावलोकस्य भट्टनृसिंहकृतायां टीकायां तृतीयः परिच्छेदः789
  1. T.MS. reads saṃrambhaḥ strīhetur bhavati. Gr.MS. gives it as samaram api strī-, etc. M.G.T. reads satīha strīhetur bhavati. Tri.MS. reads nanv iha strī-, etc. The reading given in the text is my surmise. B.M. says in this context vyāyogas tu astrīnimittasaṃgrāma iti.

  2. Only Gr.MS. reads daśarūpāvalokanasya ṭīkāyāṃ tṛtīyaḥ prakāśaḥ.