138 पुरुषविशेषप्रयोज्यः संस्कृतबहुलो वाक्प्रधानो नटाश्रयो व्यापारः= भारती । प्ररोचनावीथीप्रहसनामुखानि चास्यामङ्गानि ।

तां भरतीं लक्षयति सा त्विति

यथोद्देशं लक्षणमाह—

उन्मुखीकरणं तत्र प्रशंसातः प्ररोचना ।

प्रस्तुतार्थप्रशंसनेन श्रोतॄणां प्रवृत्त्युन्मुखीकरणं=प्ररोचना । यथा रत्नावल्याम्—

श्रीहर्षो निपुणः कविः परिषदप्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् ।
वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन- र्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥704

वीथी प्रहसनं चापि स्वप्रसङ्गेऽभिधास्यते ॥ ६ ॥
वीथ्यङ्गान्यामुखाङ्गत्वादुच्यन्तेऽत्रैव तत् पुनः ।
सूत्रधारो नटीं ब्रूते मारिपं वा विदूषकम् ॥ ७ ॥
स्वकार्यं प्रस्तुताक्षेपि चित्रोक्त्या यत् तदामुखम् ।
प्रस्तावना वा तत्र स्युः कथोद्धातः प्रवृत्तकम् ॥ ८ ॥
प्रयोगातिशयश्चाथ वीथ्यङ्गानि त्रयोदश ।

वीथीप्रहसनयोरिहानभिधाने हेतुमाह वीथी प्रहसनं चापीति । वीथ्यङ्गानां त्विहैवाभिधाने हेतुमाह वीथ्यङ्गानिति । वीथ्यङ्गानामेवामुखाङ्गत्वादभिधानं चेत् कीदृशं 705तच्चामुखम् । तत्राह तत् पुनरिति । तदेव प्रस्ताव

  1. १।५
  2. Tri.MS. and M.G.T. read tarhi āmukham. Gr.MS. reads kīdṛśaṃ syād āmukham. T.MS. reads what is given in the text.