तत्र कथोद्धातः—

706स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः ॥ ९ ॥
गृहीत्वा प्रविशेत् पात्रं कथोद्धातो द्विधैव सः ।

वाक्यं यथा रत्नावल्याम्—

यौगंधरायणः

द्वीपादन्यस्मादपि707

इति ।

वाक्यार्थं यथा वेणीसंहारे—

भीमः
निर्वाणवैरिदहनाः प्रशमादरीणां नन्दन्तु पाण्डुतनयाः सह केशवेन ।
रक्तप्रसाधितभुवः क्षतविग्रहाश्च स्वस्था भवन्तु कुरुराजसुताः सभृत्याः ॥708

ततोऽर्थेनाह—

भीमः
लाक्षागृहानलविषान्नसभाप्रवेशैः प्राणेषु वित्तनिचयेषु च नः प्रहृत्य ।
आकृष्टपाण्डववधूपरिधानकेशाः स्वस्था भवन्तु मयि जीवति धार्तराष्टाः ॥709

स्वेतिवृत्तसममिति । यत्र पात्रं स्वेतिवृत्तसमं सूत्रधारस्य वाक्यं वाक्यार्थं वा गृहीत्वा प्रविशेत् स कथोद्धातः । स च द्विविध इत्यर्थः । तथैवोदाहरति वाक्यमिति ।

  1. ‘वाक्यं वाक्यार्थमथवा प्रस्तुतं यत्र सूत्रिणः’ इति पाठः.
  2. १।७
  3. १।७
  4. वे॰ सं॰ (१।८