141 विदूषकः

715भो वअस्स, को एसो कामो जेण तुमं पि दूमिज्जसि । सो किं पुरिसो आदु इत्थिअत्ति ।

राजा

सखे—

मनोजातिरनाधीना सुखेष्वेव प्रवर्तते ।
स्नेहस्य ललितो मार्गः काम इत्यभिधीयते ॥
विदूषकः

716एवं पि ण जाणे ।

>राजा

वयस्य, इच्छाप्रभवः स इति ।

विदूषकः

717किं जो जं इच्छदि सो तं कामेदित्ति ।

राजा

अथ किम् ।

विदूषकः

718ता जाणिदं जह अहं सूअआरसालाए भोअणं इच्छामि ।

द्वितीयं यथा पाण्डवानन्दे—

का 719श्लाघ्या गुणिनां क्षमा परिभवः को यः स्वकुल्यैः कृतः किं दुःखं परसंश्रयो जगति कः श्लाघ्यो य आश्रीयते ।
को मृत्युर्व्यसनं शुचं जहति के यैर्निर्जिताः शत्रवः कैर्विज्ञातमिदं विराटनगरे छन्नस्थितैः पाण्डवैः ॥

गूढार्थेति । गूढार्थस्य पदस्य यः पर्यायः तस्य माला, प्रश्नोत्तरस्य वा माला, यत्रान्योन्यसमालापे720 तदुद्धात्यकमित्यर्थः । तथैव व्याचष्टे गूढार्थं पदमिति ।

अथावलगितम्—

यत्रैकत्र समावेशात् कार्यमन्यत् प्रसाध्यते ॥ १४ ॥
प्रस्तुतेऽन्यत्र वान्यत् स्यात् तच्चावलगितं द्विधा ।

  1. ‘भो वयस्य, क एष कामो येन त्वमपि दूयसे । स किं पुरुषोऽथवा स्त्रीति ।’ इति च्छाया.
  2. ‘एवमपि न जानामि ।’ इति च्छाया.
  3. ‘किं यो यदिच्छति स तत्कामयतीति ।’ इति च्छाया.
  4. ‘तज्ज्ञातं यथाहं सूपकारशालायां भोजनमिच्छामि ।’ इति च्छाया.
  5. B.M. bhūṣā

  6. N.S.P. reads as samālāpo.