135 तृतीयः प्रकाशः

बहुवक्तव्यतया रसविचारातिलङ्घनेन वस्तुनेतृरसानां विभज्य नाटकादिषूपयोगः प्रतिपाद्यते—

प्रकृतित्वादथान्येषां भूयोरसपरिग्रहात् ।
संपूर्णलक्षणत्वाच्च पूर्वं नाटकमुच्यते ॥ १ ॥

उद्दिष्टधर्मकं हि नाटकमनुद्दिष्टधर्माणां प्रकरणादीनां प्रकृतिः । शेषं प्रतीतम् ।

तृतीयः परिच्छेदः693

बहुवक्तव्यतयेति । वस्तुनेतृविचारानन्तरं रसे प्रतिपादनीयेऽपि तत्र बहुविधं वक्तव्यमस्तीति पश्चाद् वक्तुमिदानीं रसविचारं सिद्धं कृत्वा तमतिलङ्घ्य वस्तुनेतृरसानां नाटकादिषु तावदुपयोगः प्रतिपाद्यत इत्यर्थः । तत्र प्रथमं नाटकलक्षणवचने हेतुरुक्तः प्रकृतित्वादिति । अन्येषां प्रकरणादीनां विकृतिभूतानामस्य प्रकृतित्वात्, भूयसां रसानामङ्गत्वेनाङ्गित्वेन चात्र परिग्रहात्, अस्य संपूर्णलक्षणत्वाच्च प्रकरणादिभ्यः पूर्वं नाटकमुच्यत इति । किमिदमस्य प्रकृतित्वं नाम इत्यपेक्षायामाह उद्दिष्टधर्मकमिति ।

तत्र—

पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गते ।
प्रविश्य तद्वदपरः 694 काव्यार्थं स्थापयेन्नटः ॥ २ ॥

  1. T.MS. gives clearly tṛtīyaḥ paricchedaḥ.

  2. This is the reading in A.T.A. and in B.M.’s. N.S.P. reads kāvyam āsthāpayennaṭaḥ. See Abhinavabhāratī on 162. Abhinavagupta seems to have a different view about sūtradhāra and sthāpaka,as he takes only the appearance to be different, and not the person.