145 णहि । पढिअदि क्खु एदं ।

इत्यादि ।

अस्येति सर्वनाम्ना निर्देष्टव्यान्तराभावान्निर्देश्यं वाक्यमित्याह अस्येति ।734

अथाधिबलम्—

अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिबलं भवेत् ।

यथा वेणीसंहारे—

अर्जुनः
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते तृणमिव परिभूतो यस्य गर्वेण लोकः ।
रणशिरसि निहन्ता तस्य राधासुतस्य प्रणमति पितरौ वां मध्यमः पाण्डुपुत्रः ॥735
इत्युपक्रमे
राजा

अरे, नाहं भवानिव विकत्थनाप्रगल्भः । किंतु—

द्रक्ष्यन्ति न चिरात् सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षोऽस्थिवेणिकाभङ्गभीषणम् ॥736
इत्यन्तेन भीमदुर्योधनयोरन्योन्यवाक्यस्याधिक्योक्तिरधिबलम् ।

अथ गण्डम्—

गण्डं प्रस्तुतसंबन्धिभिन्नार्थं सहसोदितम् ॥ १८ ॥

यथोत्तरचरिते—

रामः
इयं गेहे लक्ष्मीरियममृतवर्तिर्नयनयो- रसावस्याः स्पर्शो वपुषि बहलश्चन्दनरसः ।
अयं बाहुः कण्ठे शिशिरमसृणो मौक्तिकसरः किमस्या न प्रेयो यदि परमसह्यस्तु विरहः ॥
प्रतीहारी
प्रविश्य

737देव, उअत्थिदो ।

रामः

अयि, कः ?

प्रतीहारी

738देवस्स आसण्णपरिचारओ दुम्मुहो ।739

इति ।

अथावस्यन्दितम्—

740यथोक्तस्यान्यथा व्याख्या यत्रावस्यन्दितं हि तत् ।

यथा छलितरामे—

सीता

741जाद, कल्लं क्खु तुम्हेहिं अजुज्झाए गंतव्वं । तहिं सो राआ विणएण णमिदव्वो ।

लवः

अम्ब, किमावाभ्यां राजोपजीविभ्यां भवितव्यम् ?

सीता

742जाद, सो क्खु तुम्हाणं पिदा ।

लवः

किमावयो रघुपतिः पिता ?

सीता
साशङ्कम्

743जाद, ण क्खु परं तुम्हाणं । सअलाए ज्जैव्व पुहवीए ।

इति ।

  1. B.M. notes his difference of opinion from Dhanika in the interpretation of the sarvanāman, asya here.

    Notes 132 to 137 are not given. But the serial number of the subsequent Notes (which are in the text already printed) is not changed, in order to avoid complications and confusion.

  2. ५।२७
  3. वे॰ सं॰ ५ । ३४
  4. ‘देव, उपस्थितः ।’ इति च्छाया.
  5. ‘देवस्यासन्नपरिचारको दुर्मुखः ।’ इति च्छाया.
  6. १ । ३८
  7. A.T.A. and B.M. give yathoktasya. N.S.P. rasoktasya.

  8. ‘जात, कल्यं खलु युवाभ्यामयोध्यायां गन्तव्यम् । तर्हि स राजा विनयेन नमितव्यः ।’ इति च्छाया.
  9. ‘जात, स खलु युवयोः पिता ।’ इति च्छाया.
  10. ‘जात, न खलु परं युवयोः । सकलाया एव पृथिव्याः ।’ इति च्छाया.