147 यथा च—

हंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता ।
विभावितैकदेशेन देयं751 यदभियुज्यते ॥752

यथा वा—

भुक्ता हि मया गिरयः स्नातोऽहं वह्निना पिवामि वियत् ।
हरिहरहिरण्यगर्भा मत्पुत्रास्तेन नृत्यमि ॥

अथ व्याहारः—

अन्यार्थमेव व्याहारो हास्यलोभकरं वचः ॥ २० ॥

यथा मालविकाग्निमित्रे लास्यप्रयोगावसाने—

मालविका निर्गन्तुमिच्छति
विदूषकः

753मा दाव । उवएससुद्धा गमिस्ससि ।754

इत्युपक्रमे
गणदासः
विदूषकं प्रति

आर्य, उच्यतां यस्त्वया क्रमभेदो लक्षितः ।

विदूषकः

755पढमं पच्चूसे बम्हणस्स पूआ भोदि । सा तए लंघिदा ।

सर्वे स्मयन्ते
इत्यादिना नायकस्य विश्रब्धनायिकादर्शनप्रयुक्तेन हास्यलोभकारिणा वचनेन व्याहारः ।

अथ मृदवम्—

दोषा गुणा गुणा दोषा यत्र स्युर्मृदवं हि तत् ।

यथा शाकुन्तले—

मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः सत्त्वानामुपलक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।

  1. A.T.A. steyam.

  2. विक्रमो॰ ४ । ३३
  3. ‘मा तावत् । उपदेशशुद्धा गमिष्यसि ।’ इति च्छाया.
  4. पृ॰ २८–३०
  5. ‘प्रथमं प्रत्यूषे ब्राह्मणस्य पूजा भवति । सा ताया लङ्घिता ।’ इति च्छाया.