149 यत्रेतिवृत्ते सत्यवागविसंवादिनीतिशास्त्रप्रसिद्धाभिगामिकादिगुणयुक्तो रामायणमहाभारतादिप्रसिद्धो धीरोदात्तो राजर्षिर्दिव्यो वा नायकस्तत्प्रख्यातमेवात्र नाटक आधिकारिकं वस्तु विधेयमिति ।

नीतिशास्त्रप्रसिद्धेत्यनेन अभिगम्यगुणकथनम् । इतरत्र धीरोदात्तादिगुणकथनमिति । तत्प्रख्यातमिति । त्रिविधं हि प्रख्यातम्—इतिहासात् कथातो लोकाच्चेति । तत्रेतिहासप्रख्यातं प्रख्यातशब्देन गृह्यत इत्याह रामायणेति ।

यत् तत्रानुचितं किंचिन्नायकस्य रसस्य वा ॥ २४ ॥
विरुद्धं तत् परित्याज्यमन्यथा वा प्रकल्पयेत् ।

यथा छद्मना वालिवधो मायुराजेनोदात्तराघवे758 ।

आद्यन्तमेवं निश्चित्य पञ्चधा तद् विभज्य च ॥ २५ ॥
खण्डशः संधिसंज्ञांस्तान् विभागानपि खण्डयेत् ।

अनौचित्यरसविरोधपरिहारपरिशुद्धं कृतसूचनीयदर्शनीयवस्तुविभागं फलानुसारेणोपक्लृप्तवीजबिन्दुपताकाप्रकरीकार्यलक्षणार्थप्रकृतिकं पञ्चावस्थानुगुण्येन पञ्चधा विभजेत् । पुनरपि चैकैकस्य भागस्य 759 वादश त्रयोदश पुनर्द्वादश त्रयोदश चतुर्दशेत्येवमङ्गसंज्ञया संधीनां विभागान् कुर्यात् ।

आद्यन्तमेवं निश्चित्येत्यंशस्य व्याख्यानम् अनौचित्येत्यादि । पञ्चधा तद् विभज्य चेत्यंशस्य व्याख्यानं फलानुसारेणेति । खण्डशः संधिसंज्ञांस्तानित्याद्यंशस्य व्याख्यानं पुनरपि चेति। एवं पञ्चधा विभक्तान् संधिसंज्ञांस्तान् पुनरपि चाङ्गानुकूल्येन द्वादश, त्रयोदश, द्वादश, त्रयोदश, चतुर्दश, इत्येवं खण्डयेदित्युक्तं भवतीति ।

  1. See Avaloka on II. 6 (a) (the portion connected with Note 160a).

  2. dvādaśa, trayodaśa, punar missing in N.S.P. These numbers refer to the aṅga-s of the saṃdhi-s respectively.