150
चतुःषष्टिस्तु तानि स्युरङ्गानीत्यपरं तथा ॥ २६ ॥
पताकावृत्तमप्यूनमेकाद्यैरनुसंधिभिः ।
अङ्गान्यत्र यथालाभमसंधिं प्रकरीं न्यसेत् ॥ २७ ॥

अपरमिति प्रासङ्गिकमितिवृत्तमेकाद्यैरनुसंधिभिर्न्यूनमिति प्रधानेतिवृत्तादेकद्वित्रिचतुर्भिरनुसंधिभिरूनं, पताकेतिवृत्तं न्यसनीयम् । अङ्गानि च प्रधानाविरोधेन यथालाभं न्यसनीयानि । प्रकरीवृत्तं त्वपरिपूर्णसंधि विधेयम् ।

अपरस्मिन् प्रासङ्गिकेतिवृत्ते नाङ्गसंख्यानियम इत्याह अपरं तथेति ।760 ऊनमिति । यथा प्रधानेतिवृत्तम् अङ्गैः पूर्णं विन्यस्यते नैवं प्रासङ्गिकमितिवृत्तम् । किं तु एकद्वित्रिभिः761 अनुसंधिभिरूनं पताकेतिवृत्तं762 न्यसनीयमिति । असंधिं प्रकरीं न्यसेदित्यस्य विवरणं प्रकरीवृत्तं त्विति ।763 असंधिं प्रकरीं न्यसेदिति तस्य संधेरेव विगमे संधीनां पञ्चत्वं व्याहन्यते । तेनाह अपरिपूर्णसंधि विधेयमिति । संध्यङ्गानां पूर्णना न भवत्यस्मिन्नित्यर्थः ।

तत्रैवं विभक्ते—

आदौ विष्कम्भकं कुर्यादङ्कं वा कार्ययुक्तितः ।

इयमत्र कार्ययुक्तिः—

अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् ॥ २८ ॥
यदा संदर्शयेच्छेषं कुर्याद् विष्कम्भकं तदा ।
यदा तु सरसं वस्तु मूलादेव प्रवर्तते ॥ २९ ॥
आदावेव तदाङ्कः स्यादामुखाक्षेपसंश्रयः ।

एवं विभक्तावयवस्य नाटकस्य रचनाप्रकारमाह तत्रेति । अपेक्षितं परित्यज्येति । नीरसं वस्तुविस्तरं परित्यज्य, अपेक्षितं शेषं यदा संदर्शयेत् तदा

  1. pratīkas are cited by Bh.Nṛ. not only from the Avaloka, but also sometimes from the kārikās of the Daśarūpaka.

  2. N.S.P. and A.T.A. read ekadvitricaturbhiḥ. But all the MSS. of the Laghuṭīkā give it as ekadvitribhiḥ.

  3. Only T.MS. reads patāketivṛttam api.

  4. N.S.P. reads prakarītivṛttaṃ tu.