151 प्रथमत एव विष्कम्भः स्यात् । यदा तु प्रथमत एवापेक्षितं सर्वं प्रवर्तते तदा प्रथमतः प्रस्तावनां विधाय तदाक्षिप्तमङ्कं प्रथमत एव न्यसेदित्याह अपेक्षितमिति764 ।

स तु—

प्रत्यक्षनेतृचरितो बिन्दुव्याप्तिपुरस्कृतः ॥ ३० ॥
अङ्को नानाप्रकारार्थसंविधानरसाश्रयः ।

रङ्गप्रवेशेन साक्षान्निर्दिश्यमाननायकव्यापारो बिन्दुपक्षेपार्थपरिमितोऽनेकप्रयोजनसंविधानरसाधिकरण उत्सङ्ग इवाङ्कः ।

स त्वङ्क एवं कर्तव्य इत्याह स त्विति । नानाप्रकाराथसंविधानरसाश्रय इति । नानाप्रकारमर्थसंविधानं रसश्च यदाश्रयः तादृशोऽङ्कः इत्यर्थः । गौणतामङ्कशब्दस्य दर्शयति उत्सङ्ग इवाङ्क इति ।

तत्र च—

अनुभावविभावाभ्यां स्थायिना व्यभिचारिभिः ॥ ३१ ॥
गृहीतमुक्तैः कर्तव्यमङ्गिनः परिपोषणम् ।

अङ्गिन इत्येवाङ्गिरसस्थायिनः संग्रहात् स्थायिनेति रसान्तरस्थायिनो ग्रहणम् । गृहीतमुक्तैः परस्परव्यतिकीर्णैरित्यर्थः ।

नन्वङ्गिनः परिपोषणमित्यत्र स्थायिभावं विना अङ्गिरसासंभवाद् अङ्गिन इत्येव स्थायिनो ग्रहणे सिद्धे पुनः स्थायिग्रहणं व्यर्थम् । सत्यम् । रसान्तरस्थायी तेन गृह्यत इत्यदोष इत्याह अङ्गिन इत्येवेति765 । न्यागस्य रसपोषविरुद्धत्वात् परस्परव्यतिकीर्णैरित्याह766 ।

  1. This is not found in the Avaloka.

  2. N.S.P. reads aṅgina eveti. Bh.Nṛ.’s pratῑka is correct.

  3. T.MS. reads parasparavyatirekibhiḥ.