150

तृतीयः परार्थानुमानपरिच्छेदः ।


स्वार्थ-परार्थानुमानयोः स्वार्थं व्याख्याय परार्थ व्याख्यातुकाम आह--


त्रिरूपलिङ्गाख्यानं 815परार्थमनुमानम् ॥ १ ॥


त्रिरूपलिङ्गाख्यानमिति । त्रीणि रूपाणि--अन्वय-व्यतिरेक-पक्षधर्मत्वसंज्ञकानि यस्य
तत् त्रिरूपम् । त्रिरूपं च 816तल्लिङ्गं च तस्याख्यानम् । आख्यायते प्रकाश्यतेऽनेनेति—
त्रिरूपं 817लिङ्गमिति आख्यानम् । किं पुनस्तत् ? वचनम् । वचनेन हि त्रिरूपं818 लिङ्गमा
ख्यायते । परस्मायिदं 819परार्थम् ॥


ननु 820च सम्यग्ज्ञानात्मकमनुमानमुक्तम् । तत् किमर्थं संप्रति वचनात्मकमनुमान
मुच्यत इत्याह--


कारणे कार्योपचारात् ॥ २ ॥


कारणे कार्योपचारादिति । 821त्रिरूपलिङ्गाभिधानात् त्रिरूपलिङ्गस्मृतिरुत्पद्यते822 ।
स्मृतेश्चानुमानम् । 823तस्माद् अनुमानस्य परम्परया त्रिरूपलिङ्गाभिधानं कारणम् । तस्मिन्
कारणे वचने कार्यस्य अनुमानस्योपचारः समारोपः क्रियते । ततः समारोपात् कारणं वचन-


त्रिरूपं लिङ्गं ज्ञातमपि वक्तुमविदुषो बालस्य व्युत्पादनार्थं त्रिरूपलिङ्गाख्यानलक्षणं
यत्परार्थमनुमानमुक्तं तद् व्याख्यातुं स्वार्थेत्यादिना प्रस्तौति । द्वयो रूपयोरभिधानादेकस्य
गम्यमानत्वादाख्यायते प्रकाश्यतेऽनेनेति त्रिरूपं लिङ्गमिति विवृतं न त्वभिधीयतेऽनेनेति ।
अभिधेयस्य गम्यमानस्य च प्रकाश्यत्वं तुल्यमिति प्रकाश्यते इत्यनेन द्वयोः सङ्ग्रहः ।
येनार्थक्रमेणात्मनः परोक्षार्थज्ञानमुत्पन्नं तेनैव क्रमेण परसन्ताने लिङ्गिज्ञानोत्पिपादयिषया
त्रिरूपस्य लिङ्गस्य ख्यापकं यद् वचनं तत्परार्थमनुमानमिति द्रष्टव्यम् ॥


कारणे वचने कार्यस्य ज्ञानस्योपचारात् समारोपात् ।


कथं पुनर्वचनस्यानुमानहेतुत्वमित्याह--त्रिरूपेति ।



  1. परार्थानुमा० B. P. H. E. N.

  2. च लिङ्ग चं A.

  3. त्रिरूपलि० E.

  4. त्रिरूपलि० C.

  5. परस्मायिति परा० E.

  6. ननु सम्य० A.

  7. त्रिरूपलिङ्गालम्बना स्मृतिः C. D. B.

  8. श्रोतुः--टि०

  9. तस्यानुमानस्य--A. B. P. H. E. N.