ओँ अर्हम्
अथ षष्ठो विधिनियमविध्यरः ।
न4577न्वेवमुभयमप्यवस्तु, अनुपपन्नस्वावस्थत्वात्, खपुष्पवत् । स्वा अवस्थाः
स्थित्युत्पत्तिविनाशाः । ता यदि भावस्य ततो द्रव्यमनवस्थमिति द्रव्यप्रभेदा
सम्भवः । भाव एव तु स तथाभूत आपद्यते, तद्भेदस्य तदात्मकत्वात्, मृद्वत् ।
प्रवृत्तिभाववचनात् तु प्रवृत्तावेव व्यतिरेकसम्भवाद् भावादेव सर्वस्य कृतत्वाद्
एवं विधिनियमभङ्गारे द्रव्यक्रियात्मकवादे संहृते षष्ठनय आह --नन्वेवमित्यादि विचाराश्रयं
दोषापादनसाधनम् । उभयमपि द्रव्यं क्रिया च इत्यवस्तु अनुपपन्नस्वावस्थत्वात्, अनुपपन्नाः स्वा4578
अवस्था अस्य, तद्भावादनुपपन्नस्वावस्थत्वात् खपुष्पवदिति । कास्ताः स्वा अवस्थाः ? उ4579च्यते --स्वा अवस्थाः
स्थित्युत्पत्तिविनाशाः । ताश्च द्रव्यस्य वा स्युः क्रियाया वा ? किञ्चातः ? ता यदि भावस्य ताः स्थित्या
दयः प्रागुक्ततथाभूतसन्निहितवस्तुत्वव्यक्तिलक्षणायाः क्रियाया इ4580ष्यन्तेऽवस्था इति ततो द्रव्यमनवस्थं
२९६-१ प्राप्तम्, अनवस्थालक्षणत्वादुभयोरन्यतरकल्पनावैयर्थ्यादवस्थाव्यतिरिक्तलक्षणाभावात् । भवतु द्रव्यमनव
स्थम्, को दोष इति चेत्, उच्यते --द्रव्यमनवस्थमिति द्रव्यप्रभेदासम्भवः प्राप्तः, इतिशब्दस्य हेत्वर्थ
त्वादनवस्थत्वादित्यर्थः, द्रव्यप्रभेदा रूपादिगत्यादिविवर्ताः, ते न सम्भवन्ति अनव4581स्थत्वादसत्त्वात् खपुष्प
स्येव । ततश्च यदुक्तं द्रव्यस्य लक्षणं तस्य हानिः । कतमस्य इति चेत्, उच्यते, स4582र्वप्रभेदनिर्भेदं बीजम्
इत्यस्य । तस्मान्नास्ति द्रव्यम्, अनवस्थत्वात्, खपुष्पवत् ।
ततः किं प्राप्तम् ? भाव एव तु स तथाभूत आपद्यते, द्रव्यभूता क्रियैव आपद्यते, कस्मात् ?
तद्भेदस्य तदात्मकत्वात्, स्थित्युत्पत्तिविनाशा हि द्रव्यभेदाभिमता द्र4583व्यस्यैव चेदात्मानो भवन्ति, तत
एतदर्थादापन्नम्--क्रियाया आत्मेति, क्रियैव च द्रव्यं संज्ञामात्रभेदात् । मृद्वदिति दृष्टान्तः, यथा मृद्भेदाः
पिण्डशिवकादयो मृदात्मकाः स4584न्तो मृद्भूता एव तथा स्थित्यादयो द्रव्यभूतभावभेदा एवेति द्रव्याभावेऽर्था
प4585त्त्या स्थित्यादयः क्रियाया भेदा इत्यापन्नाः ।
यदपि च क4586ल्पितं प्रवृत्तिसामान्यव्यतिरेकेण कारकवत्या ओदनादिफलोद्देशिन्याः परिग्रहार्थं विशेष
ग्रहणं तदपि न कार्यम् । कस्मात् ? प्रवृत्तिभाववचनात् तु मत्पक्षे प्रवृत्तावेव व्यतिरेकसम्भवः,