ओँ अर्हँ
सद्गुरुभ्यो नमः
अथ द्वादशो नियमनियमारः ।
अन्ते क्षयाद् यद्येवं ततो वस्तुवत् प्रसिद्ध्यभ्युपगमः कृतो भवति । वस्तुव्यवस्था
सिद्ध्युपहितनियमानतिक्रमाद् निष्ठितं तर्हि तत्, अन्तवत्त्वात्, घटादिवस्तुवत् । निष्ठित
त्वात् कृतकत्वादारब्धमपि । एवं ते पूर्वनिर्वृत्तवस्तुनिबन्धनाः, क्रियात्वात्, अन्तवत् ।
पूर्वनयमतापरितोषकारणमुत्तरनयोत्थानम्, उत्तरोत्तरसूक्ष्मेक्षिकया च पूर्वस्य दोषदर्शनात्
स्वमतसौस्थित्या8298भिमानाच्चारम्भ इत्यत आह --अन्ते क्षयाद् यद्येवम् यदि त्वयान्ते क्षयदर्शनात् स्व8299
रसेनैव वस्तुनः क्षय एवादावप्यनुमीयते, ततः किम् ? ततो वस्तुवत् प्र8300सिद्ध्यभ्युपगमः कृतो
भवति, वस्तुनीव वस्तुवत्, यथा वस्तुनः प्रसिद्धस्य लोके स्थितस्य घटादेः क्षयो भवतीति प्रसिद्धि
स्तथा त्वयाभ्युपगतमिति प्राप्तम्, विनाशस्योत्पादस्य च प्रसिद्धवस्तुविषयत्वात् । इतरथा खरविषाण-५१९-१
स्येव स्थित्यभावे विनाशोत्पादयोरप्यभावः प्रतिसन्धानाभावात्, स्थितस्य भवत एव हि भवनमितीत्थ
मभ्युपगमस्ते ।
तस्माद् वस्तुव्यवस्थासिद्ध्युपहितनियमानतिक्रमात् इत्यस्माद्धेतोर्भवत एवोत्पाद-विनाश
प्रतिसन्धानाद् व्यवस्थितं वस्तु सिद्धं नियतमुत्पाद-विनाशव्यपदेशभाग् भ8301वतीत्येतं नियमं नातिक्रामति
खपुष्पादिवैलक्षण्येनोपहितम्, अतो वस्तुव्यवस्थासिद्ध्युपहितनियमानतिक्रमाद् निश्चयेन स्थितं
निष्ठितं व्यवस्थितमिति गृहाण त्वद्वचनादेवेत्यतश्चाह --निष्ठितं तर्हि तत्, अन्तवत्त्वात्, घटादि
वस्तुवदिति दृष्टान्तः, यथा मृत्पिण्डाद्यवस्थानामन्ते घटोऽस्त्येव अवस्थित एवान्तवत्त्वात् तथा
मृल्लोष्टाद्यवस्थास्वपि । निष्ठितत्वात्, कृतं तद् वस्तु घटादिवस्तुवदेव । ततश्च कृतकत्वादारब्ध
मपि घटादिवस्तुवदेवेति हेतुहेतुमद्भावेनाऽऽरम्भ-क्रिया-निष्ठाः सा8302धिताः उप8303संहृत्यैकत्वेनाह --एवं त
इत्यादि । आरम्भ-क्रिया-निष्ठाः पूर्वनिर्वृत्तवस्तुनिबन्धनाः, 8304क्रियात्वात्, अन्तवत्, अन्ते इवान्तवत्,
यथा अन्ते निवृत्तिकाले क्रिया भवनं जन्म आत्मलाभः सा पू8305र्वनिर्वृत्तवस्तुनिबन्धना तथा प्रारम्भादि
क्रियाः ।