856

एवं च घटाद्यपि सत्, व्यवहारवृत्तत्वात्, तद्वाक्यवत् । तच्छून्यत्वे तु प्रत्यक्षादि
विरोधाः । सर्वनैःस्वाभाव्ये तु प्रत्यक्षादिविरोधाः स्फुटा एव । सर्वशून्यवादगतपक्षधर्मा
द्यभावश्च न साध्यः ।


अपि च विज्ञानाभ्युपगमाद् विज्ञानमात्रमेवेदं सर्वम्, सर्वस्य सतो विज्ञानलक्षण
त्वात् । स च पुरुष एव ज्ञः । तन्मयं चेदम् । यथोक्तं प्राक्--


प्रतिज्ञादोषः । न केवलमभ्युपगमविरोध एव ज्ञानविषयः, वचसोऽपि पक्षादिल8729क्षणस्यान्ते सस्वभावत्वे
यत् प्रागुक्तं तन्न तर्हि सर्वं निःस्वभावम्, इदानीं सस्वभावत्वाभ्युपगमात् इति स्ववचनविरोधश्च
दोषः, इति
शब्दस्य 8730हेत्वर्थत्वात् । इत्थं साधन-दूषण-प्रतिपाद्य-प्रतिपादनव्यवहारमार्गानुपातिनः
सतस्तेऽनुमान-आगम-लोक8731विरोधा अपीत्यत आह--


एवं च घटाद्यपि सदिति प्रतिज्ञायते त्वां प्रत्यसिद्धत्वात् सर्वलोकप्रसिद्धमपि । अनन्तरोक्त
सस्वभावत्वे विज्ञान-वचसोः
इति स्मारयति एवंशब्दः । कस्मात् सद् घटादि ? इति चेत्, उच्यते—
व्यवहारवृत्तत्वात्, त8732द्वाक्यवत्,8733सिद्ध्ययुक्त्यनुत्पाद-सामग्रीदर्शना-ऽदर्शनपक्ष-प8734रायत्तोभयविरो- ५४९-२
धादिविकल्पहेतुखपुष्पादिदृष्टान्तबुद्धि-वचसां सस्वभावत्ववद् घटादीनां व्यवहारवृत्तानां सस्वभावत्वं
स्यादिति । 8735च्छून्यत्वे तु प्रत्यक्षादिविरोधाः, तस्य तस्य वचनस्य श्रोत्रेन्द्रियप्रत्यक्षस्य पक्षाद्य
वयवविभागस्य घटादिप्रतिपाद्यार्थसहितस्य तद्विज्ञानस्य च तव मम च स्वसंवेद्यस्य शून्यत्वे प्रत्यक्षादि
विरोधाः सस्वभाव8736त्वमनिच्छतः । इच्छत अभ्युपगम-स्ववचनविरोधा8737वुक्तावेव । आदिग्रहणादनुमाना
ऽऽगमविरोधौ, र्हद्-बुद्ध-पिल-णाद-ब्रह्मादिप्रोक्तैरागमैः सह विरोधित्वात् । लोकविरोधस्तु
प्रसह्यैवोपात्तस्त्वया घटादयो बाह्यार्थाः ज्ञान-वचने च सन्ति इति प्र8738पन्नं सर्वलोकमवमत्य शून्याः
सर्वभावाः
इति प्रवृत्तत्वात् । एवं ज्ञान-वचनशून्याशून्यत्वयोरभ्युपगमविरोधादिसर्वदोषाः । 8739सर्वनैः
स्वाभाव्ये तु सर्वेऽपि प्रत्यक्षादिविरोधाः स्फुटा एव ज्ञान-वचनयोः सर्वान्तःपातित्वाद् यथा योजितं तया
दिशेत्येवं तावत् पक्षदोषाः सामान्यत उक्ताः ।


दोषदिक्प्रदर्शनार्थं तयैव दिशाह--सर्वशून्यवादगतपक्षधर्माद्यभावश्च न साध्यः, असिद्ध्यादि
पक्षासिद्धौ परायत्तादिहेतवो न सिध्यन्त्येवानयोक्तदिशेति स्फुटत्वान्नात्राभिनिविशामहे ।


अपि च विज्ञानाभ्युपगमादित्यादि या8740वत् सतो विज्ञानलक्षणत्वादिति । त्वयैवाभ्युपग-५५०-१
मसिद्ध्यादिहेतुभिर्बाह्यार्थनैःस्वाभाव्यमापाद्य विज्ञानमात्रमेवेदं सर्वं स्वप्नसिंहादिवज्जाग्रत्सिंहदर्शन

  1. लक्षणंस्यातेभा॰॰लक्षणस्याते य॰॰लक्षणस्य ते ?

  2. हेतत्वात्य॰

  3. ॰केविरोधा आपीत्यत आह भा॰॰कविरोधापीत्यताह य॰ऽनुमान-लोकविरोधावपीत्यत आह ?

  4. त्वद्वाक्यवत् ?

  5. पृ॰ ८२८ पं॰ १ पृ॰ ८३० पं॰ १ ॥

  6. भयविरोधादिविकल्प इति अधिकः पाठोऽत्र य॰ प्रतौ, स तूपरितनपंक्तितो लेखकानवधानादिहायातः ॥

  7. तच्छून्यहेतुभा॰

  8. ॰वमनि॰य॰

  9. पृ॰ ८५५ पं॰ ५ ॥

  10. प्रयत्नं प्र॰ ॥

  11. एतदन्तर्गतः पाठो य॰ प्रतौ नास्ति ॥

  12. यार्वे सतोय॰--र्व सतो भा॰यावत् सर्वसतो ?