अध्यायः 112
विभाण्डकस्यासन्निधाने तदाश्रमं प्रविष्टया वेश्यायुवत्या विलासै
र्ऋश्यशृङ्गं प्रलोभ्य पुनः स्वावासगमनम् ॥ 1 ॥ आगतेन विभाण्डकेन
वेश्याविलासमुग्धचेतसं सुतंप्रति मोहकारणप्रश्नः ॥ 2 ॥
सा तु नाव्याश्रमं चक्रे राजकार्यार्थसिद्धये ।
संदेशाच्चैव नृपतेः स्वबुद्ध्या चैव भारत ॥
नानापुष्पफलैर्वृक्षैः कृत्रिमैरुपशोभितैः ।
नानागुल्मलतोपेतैः स्वादुकामफलप्रदैः ॥
अतीव रमणीयं तदतीव च मनोहरम् ।
चक्रे नाव्याश्रमं रम्यमद्भुतोपमदेर्शनम् ॥
ततो निवध्य सा नावमदूरे काश्यपाश्रमात् ।
चारयामास पुरुषैर्विहारं तस्य वै मुनेः ॥
ततो दुहितरं वेश्यां समाधायेतिकार्यताम् ।
दृष्ट्वाऽन्तरं काशय्पस्य प्राहिणोद्बुद्धिसंमताम् ॥
सा तत्र गत्वा कुशला तपोनित्यस्य संनिधौ ।
आश्रमं तं समासाद्य ददर्श तमृषेः सुतम् ॥
वेश्योवाच ।
कच्चिन्मुने कुशलं तापसानां
कच्चिच्च वो मूलफलं प्रभूतम् ।
कच्चिद्भवान्रमते चाश्रेऽस्मिं-
स्त्वां वै द्रष्टुं सांप्रतमागतास्मि ॥
कच्चित्तपो वर्धते तापसानां
पिता च ते कच्चिदहीनतेजाः ।
कच्चित्त्वया प्रीयतेचैव विप्र
कच्चित्स्वाध्यायः क्रियते चर्श्यशृङ्गः ॥
ऋश्यशृङ्ग उवाच ।
ऋद्ध्या भवाञ्ज्योतिरिव प्रकाशते
मन्ये चाहं त्वामभिवादनीयम् ।
पाद्यं वै ते संप्रदास्यामि कामा-
द्यथाधर्मं फलमूलानि चैव ॥
कौश्यां बृस्यामास्स्व यथोपजोषं
कृष्णाजिनेनावृतायां सुखाय ।
क्व चाश्रमस्तव किं नाम चेदं
व्रतंब्रह्मंश्चरसि हि देववत्त्वम् ॥
वेश्योवाच ।
ममाश्रमः काश्यपपुत्र रम्य-
स्त्रियोजनं शैलमिमं परेण ।
तत्रस्वधर्मोऽनभिवादनं नो
न चोदकं पाद्यमुपस्पृशामः ॥
भवता नाभिवाद्योऽहमभिवाद्यो भवान्मया ।
व्रतमेतादृशं ब्रह्मन्परिष्वज्यो भवान्मया ॥
ऋश्यशृङ्ग उवाच ।
फलानि पक्वानि ददानि तेऽहं
भल्लातकान्यामलकानि चैव ।
करूषकानीङ्गुदधन्वनानि
प्रियालानां काङ्क्षितं वै कुरुष्व ॥
लोमश उवाच ।
सा तानि सर्वाणि विसर्जयित्वा
भक्ष्याण्यनर्हाणि ददौ ततोऽस्मै ।
तान्यृश्यशृङ्गाय महारसानि
भृशं सुरूपाणि च मोदकानि ॥
ददौ च माल्यानि सुगन्धवन्ति
चित्राणि वासांसि च भानुमन्ति ।
पेयानि चाग्र्याणि ततो मुमोद
चिक्रीड चैव प्रजहास चैव ॥
सा कन्दुकेनारमतास्य मूले
विभज्यमाना फलिता लतेव ।
गात्रैश्च गात्राणि निषेवमाणा
समाश्लिषच्चासकृदृश्यशृङ्गम् ॥
सर्जानशोकांस्तिलकांश्च वृक्षा-
न्सुपुष्पितानवनाम्यावभज्य ।
विलज्जमानेव मदाभिभूता
प्रोभयामास सुतं महर्षेः ॥
अथर्श्यशृङ्गं विकृतंसमीक्ष्य
पुनः पुनः पीञ्य च कायमस्य ।
अवेक्ष्यमाणा शनकैर्जगाम
कृत्वाऽग्निहोत्रस्य तदाऽपदेशम् ॥
तस्यां गतायां मदनेन मत्तो
विचेतनश्चाभवदृश्यशृङ्गः ।
तामेव भावेन गतेन शून्ये
विनिःश्वसन्नार्तरूपो बभूव ॥
ततो मुहूर्ताद्धरिपिङ्गलाक्षः
प्रवेष्टितो रोमभिरानखाग्रात् ।
स्वाध्यायवान्वृत्तसमाधियुक्तो
विभाण्डकः काश्यपः प्रादुरासीत् ॥
सोऽपश्यदासीनमुपेत्य पुत्रं
ध्यायन्तमेकं विपरीतचित्तम् ।
विनिःश्वसन्तं मुहुरूर्ध्वदृष्टिं
विभाण़्कः पुत्रमुवाच दीनम् ॥
न कल्पिताः समिधः किंनु तात
कच्चिद्धुतं चाग्निहोऽत्रं त्वयाऽद्य ।
`न संसृष्टं क्रियते द्वारभागे
सुवृक्षाणा खण्डने कः प्रवृत्तः' ॥
सुनिर्णिक्तं स्रुक्स्रुवं होमधेनुः
कच्चित्सवत्साद्यकृता त्वया च ।
`कोप्यागतः शुश्रूषणायेह पुत्र
कुतश्चित्रं माल्यमिदं प्रवृद्धम्' ॥
न वै यथापूर्वमिवासि पुत्र
चिन्तापरश्चासि विचेतनश्च ।
दीनोतिमात्रं किमिवाद्य खिन्नः
पृच्छामि त्वां क इहाद्यागतोऽभूत् ॥
इति श्रीमन्महाभारते अरण्यपर्वणि तीर्थयात्रापर्वणि द्वादशाधिकशततमोऽध्यायः ॥ 112 ॥
3-112-1 सा तु नार्याश्रमं चक्रे इति क. ध.पाठः । नाव्याश्रमं
नावा तार्यमाश्रमम् ॥ 3-112-4 मुनेर्विभाण्डकस्य विहारं बहिर्गमनं चारयामास
चारैरधिगतवती ॥ 3-112-5 समाधाय बोधयित्वा । इतिकार्यातां इतिकर्तव्यताम् ।
अन्तरं असान्निध्यम् ॥ 3-112-10 कौश्यां बृस्यामास्व कुशासने उपविश । यथोपजोषं
यथासुखम् ॥ 3-112-14 अनर्हाणि अमूल्यानि ॥ 3-112-16 मूले समीपे । विभज्यमाना
अङ्गमोटनादीनि कुर्वाणा ॥ 3-112-18 कायं देहं पीड्य आलिङ्ग्येत्यर्थः । अपदेशं
छलम् ॥ 3-112-19 भावेनाभिप्राये ॥ 3-112-20 प्रवेष्टितो व्याप्तः ॥ 3-112-23
निर्णिक्तं प्रक्षालितम् । सवत्सा कृता । दोहनायेति शेषः ॥