अध्यायः 120
भीष्मेण युधिष्ठिरंप्रति प्रजापालनप्रकारादिकथनम् ॥ 1 ॥
राजवृत्तान्यनेकानि त्वया प्रोक्तानि भारत ।
पूर्वैः पूर्वनियुक्तानि राजधर्मार्थवेदिभिः ॥
तदेव विस्तरेणोक्तं पूर्ववृत्तं सतां मतम् ।
प्रणेयं राजधर्माणां प्रब्रूहि भरतर्षभ ॥
भीष्म उवाच ।
रक्षणं सर्वभूतानामिति क्षात्रं परं मतम् ।
तद्यथा रक्षणं कुर्यात्तथा शृणु महीपते ॥
यथा बर्हाणि चित्राणि बिभर्ति भुजगाशनः ।
तथा बहुविधं राजा रूपं कुर्वीत् धर्मवित् ॥
तैक्ष्ण्यं जिह्नत्वमादानं सत्यमार्जवमेव च ।
मध्यस्थाः सत्वमातिष्ठंस्तथा वै सुखमृच्छति ॥
यस्मिन्नर्थे यथैव स्यात्तदूर्णं रूपमादिशेत् ।
बहुरूपस्य राज्ञो हि सूक्ष्मोऽप्यर्थो न सीदति ॥
नित्यं रक्षितमन्त्रः स्याद्यथा मूकः शरच्छिखी ।
श्लक्ष्णाक्षरगतः श्रीमान्भवेच्छास्त्रविशारदः ॥
आयव्ययेषु युक्तः स्याज्जलस्रवणेष्विव ।
शैलाद्वर्षोदकानीव द्विजान्सिद्धान्समाश्रयेत् ।
आत्मार्थं हि सदा राजा कुर्याद्धर्मध्वजोत्तमम् ॥
नित्यमुद्यतदण्डः स्यादाचारे चाप्रमादवान् ।
लोके चायव्ययौ दृष्ट्वा वृक्षाद्वृक्षमिवाव्रजेत् ॥
आज्ञावान्स्यात्स्वयूथ्येषु भौमानि चरणैः किरन् ।
जतिपक्षः परिस्पन्देत्प्रेक्षेद्वैकल्यमात्मनः ॥
दोषान्विवृणुयाच्छत्रोः परपक्षांश्च सूदयेत् ।
क ननेष्विव पुष्पाणि बहिरर्थान्समाचरेत् ॥
उच्छ्रितानाश्रयेत्स्फूतान्नरेन्द्रानचलोपमान् ।
श्रयेच्छायामिव ज्ञातिं गुप्तं शरणमाश्रयेत् ॥
प्रावृषीवासितग्रीवो माद्येत निशि निर्जने ।
मायूरेण गुणेनैव स्त्रीभिरारक्षितश्चरेत् ॥
न जह्याच्च तनुत्राणं रक्षेदात्मानमात्मना ।
चारभूमिष्विव ततान्पाशांश्च परिवर्जयेत् ॥
प्रणयेद्वाऽपि तां भूमिं प्रणश्येद्ग्रहणे पुनः ।
`एवं मयूरधर्मेण वर्तयन्सततं नरः ।'
हन्यात्क्रुद्धानतिविषांस्ताञ्जिह्मगतयोऽहिताः ॥
नासूयेच्चावगर्ह्याणि सन्निवासान्निवासयेत् ।
सदा बर्हिसमं कामं प्रशस्तं कृतमाचरेत् ।
सर्वतश्चाददेत्प्रज्ञां पतङ्गं गहनेष्विव ॥
एवं मयूरवद्राजा स्वराज्यं परिपालयेत् ।
आत्मबुद्धिकरीं नीतिं विदधीत विचक्षणः ॥
आत्मसंयमनं बुद्ध्या परबुद्ध्या विचारणाम् ।
बुद्ध्या चात्मगुणप्राप्तिरेतच्छास्त्रनिदर्शनम् ॥
परं विश्वासयेत्साम्ना स्वशक्तिं चोपलक्षयेत् ।
आत्मनः परिमर्शेन बुद्धिं बुद्ध्या विचारयेत् ॥
सान्त्वयोगमतिः प्राज्ञः कार्याकार्यप्रयोजनकः ।
निगूढबुद्धेर्धीरस्य वक्तव्ये वक्ष्यते तथा ॥
संनिकृष्टां कथां प्राज्ञो यदि बुद्ध्या बृहस्पतिः ।
स्वभावमेष्यते तप्तं कृष्णायसमिवोदके ॥
अनुयुञ्जीत सत्यानि सर्वाण्येव महीपतिः ।
आगमैरुपदिष्टानि स्वस्य चैव परस्य च ॥
मृदुं क्रूरं तथा प्राज्ञं शूरं चार्थविधानवित् ।
स्वकर्मणि नियुञ्जीत ये चान्ये वचनाधिकाः ॥
अप्यदृष्टानि युक्तानि स्वानुरूपेषु कर्मसु ।
सर्वांस्ताननुवर्तेत स्वरांस्तन्त्रीरिवायताः ॥
धर्माणामविरोधेन सर्वेषां प्रियमाचरेत् ।
ममायमिति राजा यः सपर्वत इवाचलः ॥
व्यवहारं समाधाय सूर्यो रश्मीनिवायतान् ।
धर्ममेवाभिरक्षेत कृत्वा तुल्ये प्रियाप्रिये ॥
कुलप्रकृतिदेशानां धर्मज्ञान्मृदुभाषिणः ।
मध्ये वयसि निर्दोषान्हिते युक्ताञ्जितक्लमान् ॥
अलुब्धाञ्शिक्षितान्दान्तान्धर्मेषु परिनिष्ठितान् ।
स्थापयेत्सर्वकार्येषु राजा सर्वार्थरक्षिणः ॥
एतेन च प्रकारेण कृत्यानामागतिं गतिम् ।
युक्त्या समनुतिष्ठेन तुष्टश्चारैः पुरस्कृतः ॥
अमोघक्रोधहर्शस्य स्वयं कृत्याऽनुदर्शिनाः ।
आत्मप्रत्ययकोशस्य वसुदैव वसुंधरा ॥
व्यक्तश्चानुग्रहो यस्य यथोक्तश्चापि निग्रहः ।
गुप्तात्मा गुप्तराष्ट्रस्य स राजा राजधर्मवित् ॥
नित्यं राष्ट्रमवेक्षेत गोभिः सूर्य इवातपन् ।
चारांश्चानुचरान्विद्यात्तथा बुद्ध्या स्वयं चरेत् ॥
कालप्राप्तमुपादद्यान्नार्थं राजा प्रसूचयेत् ।
अहन्यहनि संदुह्यान्महीं गामिव बुद्धिमान् ॥
यथाक्रमेण पुष्पेभ्यश्चिनोति मधु षट््पदः ।
तथा द्रव्यमुपादाय राजा कुर्वीत संचयम् ॥
यद्धि गुप्तावशिष्टं स्यात्तद्वित्तं धर्मकामयोः ।
संचयान्न विसर्गी स्याद्राजा शास्त्रविदात्मवान् ॥
नार्थमल्पं परिभवेन्नावमन्येत शात्रवान् ।
बुद्ध्याऽनुबुद्ध्या चात्मानं न चाबुद्धेषु विश्वसेत् ॥
धृतिर्दाक्ष्यं संयमो बुद्धिरात्मा
धैर्यं शौर्यं देशकालाप्रमादः ।
अल्पस्य वा महतो वा विवृद्धौ
धनस्यैतान्यष्ट समिंधनानि ॥
अग्निस्तोको वर्धतेऽप्याज्यसिक्तो
बीजं चैकं बहुसहस्रमेति ।
क्षयोदयौ विपुलौ सन्नियम्यौ
तस्मादल्पं नावमन्येत वित्तम् ॥
बालोऽप्यबालः स्थविरो रिपुर्यः ।
सदा प्रमत्तं पुरुषं निहन्यात् ।
कालेनान्यस्तस्य मूलं हरेत्
कालज्ञानं पार्थिवाना वरिष्ठम् ॥
हरेत्कीर्ति धर्ममस्योपरुन्ध्या
दर्थे विघ्नं वीर्यमस्योपहन्यात् ।
रिपुर्द्वेष्टा दुर्बलो वा बली वा
तस्माच्छत्रोर्नैव बिभ्येद्यथात्मा ॥
क्षयं शत्रोः संचयं पालनं वा
उभावर्थौ सहितौ धर्मकामौ ।
ततश्चान्यन्मतिमान्संदधीत
तस्माद्राजा बुद्धिमन्तं श्रयेत ॥
बुद्धिर्दीप्ता बलवन्तं हिनस्ति
बलं बुद्ध्या पाल्यते वर्धमानम् ।
शत्रुर्बुद्ध्या सीदते पीड्यमानो
बुद्धिपूर्वं कर्म यत्तत्प्रशस्तम् ॥
सर्वान्कामान्कामयानो हि धीरः
सत्वेनाल्पेनाप्नुते हीनदोषः ।
यश्चात्मानं प्रार्थयतेऽर्थ्यमानैः
श्रेयः पात्रं पूरयते च नाल्पम् ॥
तस्माद्राजा प्रगृहीतः प्रजासु
मूलं लक्ष्म्याः सर्वशो ह्याददीत ।
दीर्घं कालं ह्यपि संपीड्यमानो
व्युष्यात्संपद्व्यवसायेन शक्त्या ॥
विद्या तपो वा विपुलं धनं वा
सर्वं ह्येतद्व्यवसायेन शक्यम् ।
ब्रह्मायत्तं निवसति देहवत्सु
तस्माद्विद्याद्व्यवसायं प्रभूतम् ॥
यत्रासते मतिमन्तो मनस्विनः
शक्रो विष्णुर्यत्र सरस्वती च ।
वसन्ति भूतानि च यत्र नित्यं
तस्माद्विद्वान्नावमन्येत देहम् ॥
लुब्धं हन्यात्संप्रदानाद्धि नित्यं
लुब्धस्तृप्तिं परवित्तस्य नैति ।
सर्वो लुब्धः सर्वगुणोपभोगो
योऽर्थैर्हीनो धर्मकामौ जहाति ॥
धनं भोगं पुत्रदारं समृद्धिं
सर्वं लुब्धः प्रार्थयते परेषाम् ।
लुब्धे दोषाः संभवन्तीह सर्वे
तस्माद्राजा न प्रगृह्णीत् लुब्धम् ॥
संदर्शनेन पुरुषं जघन्यमपि चोदयेत् ।
आरम्भान्द्विषतां प्राज्ञः सर्वार्थांश्च प्रसूदयेत् ॥
धर्मान्वितेषु विज्ञाता मन्त्रगुप्तिंश्च पाण्डव ।
आप्तो राजन्कुलीनश्च पर्याप्तो राष्ट्रसंग्रहे ॥
विविप्रयुक्तान्नरदेवधर्मा
नुक्तान्समासेन निबोध बुद्ध्या ।
इमान्विदध्यादनुसृत्य यो वै
राजा महीं पालयितुं स शक्तः ॥
सुनीतिजं यस्य विधानजं सुखं
धर्मप्रणीतं विधिवत्प्रसिद्ध्यति ।
न निन्द्यते तस्य गतिर्महीपते
स विन्दते राज्यसुखं ह्यनुत्तमम् ॥
धनैर्विशिष्टान्मतिशीलपूजिता
न्गुणोपपन्नान्युधि दृष्टविक्रमान् ।
गुणेषु युक्तानचिरादिवात्मवां
स्ततोऽभिसंधाय निहन्ति शात्रवान् ॥
पश्येदुपायान्विविधेषु कर्मसु
न चानुपायेन मतिं निवेशयेत् ।
श्रियं विशिष्टां विपुलं यशो धनं
न दोषदर्शी पुरुषः समश्नुते ॥
प्रीतिप्रवृत्तिं विनिवर्तनं च
सुहृसु विज्ञाय विचार्य चोभयोः ।
यदेव मित्रं गुरुभारमावहे
त्तदेव सुस्निग्धमुदाहरेद्बुधः ॥
एतान्मयोक्तांश्चर राजधर्मा
न्नृणां च गुप्तौ मतिमादधत्स्व ।
अवाप्स्यसे पुण्यफलं सुखेन
सर्वो हि लोको नृप धर्ममूलः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि विंशत्यधिकशततमोऽध्यायः ॥ 120 ॥
12-120-2 राजधर्माणां राजधर्मविदां मतं यद्विस्तरेणोक्तं तदेव
प्रणेयं प्रकर्षेण नेतुं वोढु शक्यं संक्षिप्तमित्यर्थः । प्रणयं राजधर्माणामिति
थ. द. पाठः ॥ 12-120-4 बर्हाणि पक्षान् । भुजगाशनो मयूरः ॥ 12-120-5 तैक्ष्ण्यं
क्रूरत्वम् । जिह्मत्वं कोटिल्यम् ॥ 12-120-6 यस्मिंन्नर्थे दण्डेऽनुग्रहे वा ।
रूपमादिशेद्दर्शयेत् ॥ 12-120-7 शरच्छिस्वी शरत्कालमयूरः ॥ 12-120-8
युक्तोऽवहितः स्यात् । वर्षोदकानि वृष्ट्या जनितानि महानदीजलानि । अर्थकामः शिखां
राजा कुर्याद्धर्मध्वजोपमाम् इति झ. पाठः । तत्र शिखां योग्यलिङ्गं
क्रूरत्वादिकं कुर्यात् प्रकाशयेदित्यर्थः ॥ 12-120-9 लोके चायव्ययौ दृष्ट्वा
वृहद्वृक्षमिवास्रवदिति झ. पाठः । तत्र बृहन्तो वृक्षा यत्र तद्वृहद्वक्षं
तालवनम् । आस्रवत् रसं प्रस्रवत् । यथा रसग्राही प्रदेशविशेषे एव प्रहृत्य रसं
गृह्णीति नतु कृत्स्नवृक्षच्छेदेनेक्षुकाण्डादिवत्ततो रसं जिघृक्षति । एवं
प्रजानामायव्ययौ ज्ञात्वा ता जीवयंस्ताभ्यो धनरसमादद्यादित्यर्थः ॥ 12-120-10
भौमानि परेषां सस्यानि चरणैरश्वादिगमनैः किरन् नाशयन्नित्यर्थः ॥ 12-120-13
असितग्रीवो मयूरः ॥ 12-120-14 चारैर्दर्शितासु भूमिषु
धात्रीसौविदल्लसूपकारादिषु परैर्भेदितेषु ततान्विषादीन्पाशान् ॥ 12-120-15
पाशज्ञाने सति तां कपटभूमिं प्रतिपद्यात्मानं प्रणयेत्प्रापयेत्तदानश्येदेव ।
वाशब्द एवार्थे ॥ 12-120-16 सन्निवासान्दृढमूलान्पक्षा नमात्यादीन् शूरांश्च
वासयेत्स्थापयेत् । बर्हिसमं मयूरतुल्यं कामं यथेष्टं प्रशस्तं कृतं प्रशस्तां
क्रियां पक्षाणां विस्फारणमाचरेत् । पतङ्गं शलभसमूहो यथा गहनेषु पतति गहनं च
निष्पन्नं करोति एवं संभूय शत्रूराष्ट्रे पतितव्यमित्यर्थः ॥ 12-120-18
बुद्ध्या आत्मनः संयमनं इत्थमेव कर्तुं युक्तं नियमं कुर्यात् । परबुद्ध्या च
तत्रैवार्थे संवादितया तस्यार्थस्य विचारणं दृढतरो निश्चयः कार्यः । बुद्ध्या
शास्त्रोत्थधिया आत्मगुणस्य पूर्वोक्तनिश्चयहेतोः प्राप्तिर्भवति । एतदेव
शास्त्रस्य निदर्शनं प्रयोजनं यत्कार्यक्षोदक्षमता बुद्धेरित्यर्थः ॥ 12-120-19
आत्मनः स्वस्य परिमर्शेन सर्वतोऽतीतानागतविचारेण बुद्धिं कार्यनिश्चयं बुद्ध्या
ऊहापोहकौशलरूपया मेधया विचारयेत्साधकबाधकभूमौ संचारयेत् ॥ 12-120-21 प्राज्ञो
बुद्ध्या बृहस्पतिसमोऽपि सन् यदि निकृष्टां कथां निर्बुद्धित्ववादं
प्राप्नुयात्तर्हि सद्यएव युक्त्या स्वभावं स्वास्थ्यं एष्यते । उदके
प्रक्षिप्तं तप्तायसं शैत्यमिव ॥ 12-120-33 न अर्थं प्रसूचयेत् अर्थवृत्तां न
ज्ञापयेत् ॥ 12-120-35 संचयान्न विसर्गी स्यात् । कोशाद्धनं न
दद्यादपितूपर्याहृतमेवेत्यर्थः ॥ 12-120-37 आत्मा देहः । देशे काले वाऽप्रमाद
इत्येकम् ॥ 12-120-39 अबालः अहीनः । अन्यः संपन्नः ॥ 12-120-41 धर्मकामौ
बुद्ध्या संदधीत संधिं वा कुर्यात् । अन्यत् विग्रहादिकं कुर्यात् ॥ 12-120-42
वर्धमानं क्षीयमाणम् ॥ 12-120-43 अल्पेनापि सत्वेन बलेन । अर्थ्यमानैर्युक्तम् ।
आत्मानं प्रार्थयते । लुब्धो दृप्तश्च भवतीत्यर्थः । श्रेयः पात्रं न पूरयते ततः
श्रेयोऽपसर्पतीत्यर्थः ॥ 12-120-44 प्रगृहीतः स्रिग्धः । लक्ष्म्याः मूलं अर्थं
सर्वशः सर्वाभ्यः संपीढ्यमानः संपीड्यन् ॥ 12-120-45 व्यवस येन उद्योगेन
विद्यात् लभेत् ॥ 12-120-46 अनुद्योगेन जन्म न नाश्येदित्याह यत्रेति ॥ 12-120-47 समृद्धिं च प्राप्यापीति शेषः । धनं उत्कोचरूपम् ॥ 12-120-52 विधानजं
दैवप्राप्तम् ॥ 12-120-53 गुणोपपन्नाञ्शौर्यादियुक्तान् । गुणेषु
संधिविग्रहादिषु आत्मवानप्रमत्तः ॥ 12-120-54 दोषदर्शी निर्दोषष्वेपीति शेषः ॥ 12-120-55 उदाहरेत्प्रशंसेत् ॥ 12-120-56 चरानुतिष्ठ । आदधत्स्व आधत्स्वा । दध
धारणे इत्यस्य रूपम् ॥