चूडामणिप्रभृतिसर्वनिमित्तवेदी चूडामणिर्भवनिमित्तविदां बभूव ॥ १ ॥
शिष्यस्तस्य तपोनिधिः शमनिधिर्वि द्यानिधि र्धीनिधिः ।
शीलानन्दितभव्यलोकहृदयः सौख्यैकनन्दीत्यभूत् ॥
आरुह्य प प्र तिभागुणप्रवहणं सद्वोधिरत्नोद्वहं ।
सत्सि द्धान्तमहोदधेरनवधेः पारं परं दृष्टवान् ॥ २ ॥
अन्तेवासी समजनि मुनेस्तस्य यो देवनन्दी,
दीप्तोत्तप्तप्रभृतितपसा सां धाम यो देवनन्दी ।
चातुर्वर्ण्यश्रमणगणिभिर्देववद्वंरदनीयो,
देवश्चासावजनि परमानन्दयोगाच्च नन्दी ॥ ३ ॥
एतस्मादुदयाचलाद्वि धिवशाल्लीलोदयेनाभितः ।
श्रीमद्भास्करणनन्दिना दशदिशस्तेजोभिरुद्योतिताः ॥
विद्वत्तारकचक्रवालमखिलं मिथ्यातमोभे दिभि
रर्थोद्भा सवचोमरीचिनिचयैराच्छादितं सर्वतः ॥ छ ॥ ४ ॥
त्यक्ता वादकथापि वादिनिवहैर्नाल्पोऽपि जल्पः कृतः ।
जल्पाकै स्त्रपया च नो निगदितं पाखण्डिवैतण्डिकैः ॥
षट्तर्कोपनिषन्निशाणनिशितप्रज्ञस्य तैः सेव्यते ।
श्रीमद्भास्करणनन्दिपण्डितपतेः पादारविन्दद्वयी ॥ छ ॥
इति न्यायकुमुदचन्द्रवृत्तितर्कः समाप्तःमि प्त इ ति ॥ छ ॥
ग्रन्थाग्रं १६००० ॥ १५२० ॥ छ ॥ शुभं भवतु ॥ छ ॥ श्री ॥
समाप्तोऽयं ग्रन्थः