389 उत्तरम्—सत्सु भवतीति । प्रत्यनीकस्य ग्रहणादिति । अपां पातप्रत्यनीकस्य
1620अपातस्य ग्रहणात् तद्विरोधिनः पातविरोधिनः वाय्वभ्रसंयोगस्य ग्रहणम् तदिदं
किलाभावाख्यं प्रमाणम् । प्रमीयते हि मेघोदयेऽपि 1621तोयपाताभावेन वाय्वभ्रसंयोग
इति ॥ १ ॥


शब्द ऐतिह्यानर्थान्तरभावादनुमानेऽर्थापत्तिसंभवाभावा
नर्थान्तरभावाच्चाप्रतिषेधः ॥ २ । २ । २ ॥


सिद्धान्तमाह—तान्येतानीति । ननु भविष्यत्यसौ विषय उक्तलक्षणामानाम
गोचरः प्रमाणानाम्, प्रवर्त्स्यन्ति च तत्रैतिह्यादीनि प्रमाणान्तराणीत्यत आह—विषया
भावाच्चेति ।
चोदयति—अथ प्रयोजनभेदादिति । तदेतदतिप्रसङ्गापादनेन
दूषयति—एवं तर्ह्यष्टत्वमिति । न तावत् सन्ति तादृशः प्रयोजनसामान्यविशेषा यैः
प्रयोजनवन्ति प्रमाणानि परस्परतो व्यावर्तयेयुः, अपि तु भेदमात्राद् व्यावर्तयन्तीति
वक्तव्यम् । तथा चातिप्रसङ्गेनाष्टत्वसंख्याव्यावृत्तिरित्यर्थः । अथ विषयसामान्येति ।
रूपत्वादिकं विषयसामान्यं तस्य स्वासु स्वासु व्यक्तिष्वव्यतिरेक एकत्वं तस्मा
दित्यर्थः । निरोकरोति—न युक्तस्तर्हीति । निरुपाधानस्वरूपमेकं व्यापकत्वान्वितत्व
संज्ञित्वोपधानाश्च त्रय1622 इति चत्वारो विषयसामान्यविशेषा इति चतुष्ट्वप्रतिषेधो न
युक्त इत्यर्थः । यद्येतानीति । यद्यैतिह्यादीनि प्रमाणानि क्व प्रत्यक्षादौ किमैतिह्या
द्यन्तर्भवतीति वक्तव्यम् । अप्रमाणस्य प्रमाणेऽर्भावो न भवतीति प्रमाणानीत्युक्तम् ।
यत् खल्वनिर्दिष्टप्रवक्तृकं प्रवादपारम्पर्यमैतिह्यं तस्य चेदाप्तः कर्ता नावधारितः,
ततस्तत् प्रमाणमेव न भवतीति यदीत्युक्तम् ।


शब्द…धः । अथाक्षरपरम्परेत्यवगतं तत्राप्तोपदेशः शब्द इति लक्षणं
नातिवर्तते1623 । तदिदमुक्तम्—समानलक्षणत्वादिति । पृच्छति—कथमर्थापत्तिरिति ।

  1. उपात्तस्यC

  2. यत्तोय°C

  3. धानास्त्रयःC

  4. °देश इति शब्दलक्षणान्नाति°C