529 ‘लोल202 चलने’ तौदादिकः । यद्वा लोकतीति क्विबन्तात्तिप् । अत्र पदद्वयं द्रव्यवाचकं संपुटक्रमेण मिथः संबध्यमानं मिथः संबद्धान्येव पदानि दीपयतीति संपुटम् ॥
रसना यथा—
अत्र रसनाक्रमेण मिथः संग्रथितानि ‘सलिलं विकाशिकमलम्’ इत्यादीनि वाक्यानि ‘इह’ इत्यन्तस्थितेनाधिकरणवाचिना द्रव्यदीपकेन दीप्यन्ते; तदेतत् रसनादीपकं नामादिदीपकभेदः ॥
सलिलमित्यादि । जलं प्रफुल्लपद्मम, पद्मानि सुगन्धमधुना समृद्धानि । लीनं यदलिकुलं तेनाकुलं मधु, भ्रमरकुलमपीह वसन्ते मधुरणितं मधुना पुष्परसेन शब्दितं मधौ मधूकद्रुमे वा शब्दितम् । ‘मधु पुष्परसक्षौद्रमद्ये ना तु मधुद्रुमे’ इति मेदिनीकारः । अत्र क्षुद्रघण्टिकाक्रमेण संग्रथितानि सलिलादिपदान्यन्तःस्थिताधिकरणरूपद्रव्यवाचकेनेहेति पदेन दीप्यन्ते ॥
माला यथा—
अत्र मालाक्रमेण परस्परग्रथिताः कर्तारो हेतवश्च शशिप्रभृतयः ‘शोभते’ इति क्रियया दीप्यन्ते; तदेतन्मालादीपकं नाम दीपकस्य भेदः ॥
कः पुनरस्य पूर्वस्माद्विशेषः । पूर्वत्र वृत्तिच्छिन्नं रसनायां सर्वत्र