‘क्षिप्तं पुरो न जगृहे मुहुरिक्षुकाण्डं नापेक्षते स्म निकटोपगतां करेणुम् ।
सस्मार वारणपतिः परिमीलिताक्ष- मिच्छाविहारवनवासमहोत्सवानाम्631 ॥ १२१ ॥’
  1. ‘महोत्सवान्तम्’ ख