714
यानि प्रणाममिलितानि नृणां ललाटे 1503 लुम्पन्ति दैवलिखितानि दुरक्षराणि ॥ ४६७ ॥

1504अत्र हेतुसाम्योभयालंकाराभिधानेऽपि प्राधान्येनार्थप्राकट्यमर्थगुणः प्रतीयते ॥

दोषगुणप्रधानो यथा—

‘येनापविद्धसलिलस्फुटनागसद्मा देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयमाहिताङ्कः खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ४६८ ॥’

अत्र ‘व्यावर्तनैरहिपतेरयमाहिताङ्कः’ इति ज्ञापकहेतोः ‘खं व्यालिखन्निव’ इति उत्प्रेक्षावयवाच्च, देवासुरैरिति 1505नित्यवैराविवक्षायां बहुवचनम्, ‘अमृतमम्बुनिधिर्ममन्थे’ इति द्विकर्मकेष्वपि मथिप्रभृतीनामुपसंख्यानमिति अमृतशब्दाद्द्वितीया इति दोषगुणयोः प्राधान्यं प्रतीयते । ननु चात्रार्थस्य 1506प्राधान्यं कथं भवति तद्विषयस्य ज्ञापकहेतुनापहृतत्वात्सोऽप्यर्थालंकार एव । गुणालंकारयोश्च तुल्यकक्षतायामलंकारः प्रधानं भवति न गुणः । गुणैर्हि गुणभूतैरेवालंकाराः प्राय आरभ्यन्ते । तद्यथा—

‘अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता ।
विपञ्चीस्वरसौभाग्या वैदर्भी रीतिरिप्यते ।
1507समस्तात्युद्भटपदामोजःकान्तिसमन्विताम् ।
1508गौडीयेति विजानन्ति रीतिं रीतिविचक्षणाः ॥
  1. ‘लिम्पन्ति’ घ
  2. ‘अत्र हेतुवाक्यउभयालंकारप्राधान्येनार्धप्राकटयमर्थगुणः प्रतीयते’ क
  3. ‘नित्यविवक्षायाम’ ख
  4. ‘प्राधान्यं न भवति’ क ख
  5. ‘समस्तेत्युत्कटपदाम्’ क, ‘समस्तात्युत्कटपदाम्’ ख
  6. ‘गौडीयां तां’ क ख