यावन्मूर्ध्नि हिमांशुकन्दलभृति स्वर्वाहिनी धूर्जटेर्यावद्वक्षसि कौस्तुभस्तबकिता लक्ष्मीर्मुरद्वेषिणः ।
यावच्चित्तभुवस्त्रिलोकविजयप्रौढं धनुः कौसुमं भूयात्तावदियं कृतिः कृतधियां कर्णावतंसोत्पलम् ॥ ५२७ ॥