577
नीवीबन्धवदागतं शिथिलतामाभाषमाणे ततो
मानेनापगतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ १५ ॥’
अत्र बलवभ्द्यां प्रियप्रेमानुनयाभ्यां ह्रीरोषयोरुपशमः क्रियते ॥
रतावेव रोषरूपरसस्य शेषो यथा—
अत्र कस्याश्चिद्बलवता प्रेम्णोन्मूलितस्यापि मानस्य 424शेषोऽनुवर्तते ।
त एते 425भावादयो दशापि रसप्रकारा हासादिष्वपि 426प्रायो दृश्यन्ते । ग्रन्थगौरवभयात्क्व427चित्क्वचिदुदाह्रियन्ते ॥
तत्र
428न्यङ्गव्रीडादिभिश्चेतोविकारो हास उच्यते ।
तद्रूपेण रसस्य भावो यथा—
‘कनककलशस्वच्छे राधापयोधरमण्डले
नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् ।
असितसिचयप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपन्
जयति जनितव्रीडाहासः प्रियाहसितो हरिः ॥ १७ ॥’
अत्र 429राधाया हरिन्यङ्गाद्, हरेस्तु व्रीडातो हासस्य सत्तामात्रं प्रतीयते ॥