अत्र यद्यपि द्विजशिशोर्जीवनाय मुनिरपि शूद्रो वध्य इति न रामस्यात्मकर्मनिन्दा तथाप्यनपकारिणं439 जिघांसतो 440घृणानुवर्तत एव । सीता-580 परित्यागविषयत्वेनैवात्र जुगुप्सानुगमो ग्रहीतव्यः । 441शम्बुकविषये पुनरस्या जन्ममात्रमेवेति ॥

  1. ‘प्यनयकारिणं’ ख
  2. ‘घृणा प्रवर्त्तत इति सीतापरित्याग’ क ख
  3. ‘शम्बूकविषये’ क