101 भासयन्ति पदानि दोषतया न प्रतिभासते । तत्र वीथ्यङ्गविशेषोपक्षेपस्यामुखशरीरत्वादौचित्यनिवेश एव स्फुटं कारणमित्याशयो बोद्धव्यः । औचित्यविरोधो न सार्वत्रिक इति नातिप्रसङ्ग ॥
33यथा च—
अत्राभिप्रेतसुसंस्थानाशापिशाचिका कुमारीति पदानामशस्तस्मृतिहेतूनामपि लोकैरन्यत्र लक्षितत्वाद्गुणत्वम् ॥
कोऽभिप्रेत इत्यादौ पूर्ववदेव वासना ॥
एवं घृणावदर्थादीनामपि गुणत्वम् ।
तत्र घृणावतो यथा—
अत्र—
घृणावदर्थान्तरस्य यथा—
अत्र रागातिशयहेतुभूतयोः कामिनीकपोलचन्द्रमसोः स्वरूपभावनामाहात्म्येनार्थान्तरभावना गुप्तेति गण्डनिस्यन्दबिन्दुरित्यस्य घृणावदर्थान्तरस्यापि न 36दोषत्वम् ॥
अथापरं संख्यानप्रकारं घृणावदर्थे कथयति—यथेति । गुणवृत्तिव्यापाराश्रयेष्ववान्तरादिपदेषु प्रथमत एवान्यक्रियादिधर्माणामन्यत्रारोपे समाधिप्रादुर्भावा-