104 तया रसतापन्नम् । उपपद्यते च तच्चित्तस्य सादृश्यमात्रेण तद्रूपतानुसंधानम् । ततश्च कथं नोद्दीपनता वस्तुसत्त्वस्यानुपयोगित्वात् । अत एव सूत्रितस्य बीभत्सस्य प्रकृतेन बाधात् प्रकृतार्थानुपोष इति ॥
ननु कथमुद्देशे चतुर्विंशतिधेत्युक्तम् । दोषा हि पूर्वं षोडशैव विभक्ता इत्यत आह—
अश्लीलादेरिति । निगदव्याख्यातम् । चतुर्विंशतिरित्येषेति । आ दशभ्यः संख्या संख्येये बर्तते, ततः संख्याने संख्येये चाभिधानात् केवलसंख्यानवचनत्वेन गवां विंशतिरितिवत्पदसमाश्रयेत्युपपन्नम् ।
क्रमप्राप्तवाक्यदोषगुणीभावव्युत्पादनमवतारयति—इदानीमिति ॥
यथा—
अत्र ‘न लोकाव्ययनिष्ठाखलर्थतृनाम्’ इति कर्तृकर्मणोः षष्ठीप्रतिषेधे किमेषां47 दुष्करमित्यपभाषणेऽपि संबन्धमात्रविवक्षातो गुणत्वम् ।
यदाह—