215 सदादेहमिति प्रथमचतुर्थयोरन्तादी नमस्यन्तीति द्वितीयतृतीययोर्भवान्यत इति च तृतीयचतुर्थयोराद्यन्तौ च स्थूलावृत्त्या व्याप्ताविति अनावृत्तभागाभावाच्छ्लोके स्थूलव्यपेतमस्थानयमकमिदम् ॥
श्लोक एव सूक्ष्ममव्यपेतं यथा—
अत्र यद्यपि यामायामेत्यादौ व्यपेतमाद्यन्तयमकं नीतानीतेत्यादौ च मध्ययमकमव्यपेतं विद्यते, तथापि मण्डूकप्लुत्या गतप्रत्यागतेर्यतेश्च नैतदुल्लिखति अपि तु श्लोकोऽपि द्वाभ्यां द्वाभ्यामक्षराभ्यां सूक्ष्मवृत्त्या व्याप्त इव लक्ष्यते । तेनास्थानयमकमिदमादिमध्यान्तानामभावात्सूक्ष्मावृत्तेः सूक्ष्मव्यपेतमुच्यते ॥
यामेति । मानिभिरिता संगता । यद्वा यामेन प्रहरमात्रेणानीता प्रापिता । शत्रूञ्जित्वेत्यर्थः । आनीतः प्रापित आयामो वृद्धिर्यस्याः सा तथा । पालनेन लोकानामाधिमीरयति क्षिपतीति लोकाधीराधीरैरप्राप्तसमरसंभ्रमैरालोक्यत इति धीरालोका । सह इना सेनान्या वर्तत इति सेना, असन्ना अवसादरहिता एवंभूता या सेना सा आसन्ना निकटवर्तिनी सती आरमरिसमूहं हत्वा त्वा त्वां सारं कार्यसिद्धिं आह ब्रवीति । ननु यामा यामा, लोकालोकेत्यादिकमाद्यन्तयोर्नीतानीतेत्यादिकं तु पदचतुष्टयस्यापि मध्य इति व्यपेतम्, आद्यन्तव्यपेतयमकं तु मध्ययमकमिति स्थानयमकमेवेदम् । संकरोऽपि न पृथग् यमकतां प्रयोजयतीत्यत आह—अत्र यद्यपीति । यामेत्यादिकमादावनुसंधाय वर्णचतुष्कव्यवधिना पादान्तेऽनुसंधीयमानं मण्डूकप्लुतिं प्रयोजयतीति न तथा सोल्लेखम् । यामानीतेत्यादिस्थूलचतुष्कप्रत्यागतेन नीतायामेत्यादिनात्यन्तमुद्भटेन यमकच्छाया तिरोधीयत इति च न सोल्लेखम् । मध्यादिकमव्यपेतं सोल्लेखमित्यपि न वाच्यम् । यामानीतेत्यादिबन्धच्छायार्थकयतिकरणेनानुल्लेखत्वात् । श्लोकस्तु द्वाभ्यां द्वाभ्यामावृत्तिभ्यां व्याप्त इति समुदायसोल्लेखतैव । तदिदमुक्तं मण्डूकप्लुत्या गतप्रत्यागतेर्यतेश्चेति मध्ये यतिकृतो व्यवायो बोद्धव्यः । अत्रापि वृत्तौचित्यमनुसरणीयम् ॥