253

गृहीतमुक्तो यथेति । पुंनागः पुंगज इति प्रसिद्धः । केसरो बकुलः । भावना वासना । सुरभिर्वसन्तः । नानामधुपानलालसानामितस्ततः षट्चरणानां चरणं भ्रमणम् । अत्र चक्रवालक्रमो व्यक्त एव । आवृत्त्याधिक्याभावाच्च गृहीतमात्रस्यैव मोचनम् ॥

पुनरुक्तिमान्यथा—

‘धूमाइ धूमकलुसे जलह जलन्ता बुहत्थजीआबन्धे ।
पडिरअपडिउण्णदिसे रसइ रसन्तिसिहरे धणुम्मि णहअलम् ॥ २२७ ॥’
[धूमायते धूमकलुषे ज्वलति ज्वलदात्तहस्तजीवाबन्धे ।
प्रतिरवप्रतिपूर्णदिशि रसति रसच्छिखरे धनुषि नभस्तलम् ॥]

अत्र धूमादीनां पुनर्वचनात्पदानुप्रासोऽयं पुनरुक्तिमानुच्यते ॥

पुनरुक्तिमानिति । वाच्याभेदात्पुनरुक्तिः सा यस्मिन्नावृत्तिलक्षणेनानुप्रासे स पुनरुक्तिमान् । तात्पर्यभेदाञ्च न दोषः । धूमज्वलनरसनानामाकाशदेशव्यापितया धनुःप्रकर्षद्वारेण रामभद्रगतोत्साहशक्तिध्वननात्प्रकृतवीररसपोषः । अत्र धूमधूमेत्यादिना वाच्यभेदः ॥

ननु वर्णावृत्तिरनुप्राससामान्यलक्षणयुक्ता न चासौ पदाद्यावृत्तावस्तीत्यत आह—

वर्णावृत्तिरनुप्रासः पादेषु च पदेषु च ।
पूर्वानुभवसंस्कारबोधिनी पद्यदूरता ॥ ९७ ॥

वर्णावृत्तिरिति । समुदायावृत्तिरपि वर्णावृत्तिरेव । नहि वर्णातिरिक्तः समुदायो नाम । इयांस्तु विशेषो यत्पूर्वजातीयवृत्तानुसंधानमलंकारतां प्रयोजयति । तत्र च कार्यानुमेयः समयसंनिकर्षविशेष एव प्रयोजक इति । तदिदं दिङ्मात्रमुक्तम् ॥

लाटानुप्रासवर्गस्य यावद्वा लक्ष्यते गतिः ।
पदानुप्रासवर्गेऽपि तावदेव प्रपञ्चते ॥ ९८ ॥

अन्येऽपि पदानुप्रासप्रकाराः स्वयमुत्प्रेक्षितव्या इत्याह—लाटेति । गतिः प्रकारः ॥

स्वभावतश्च गौण्या च वीप्साभीक्ष्ण्यादिभिश्च सा ।
नाम्ना द्विरुक्तिभिर्वाक्ये तदनुप्रास उच्यते ॥ ९९ ॥

क्रमप्राप्तं नामद्विरुक्त्यनुप्रासं विभजते—स्वभावत इति । यद्यपि पदानु-