335

ओँ अर्हम्

अथ चतुर्थो विधिनियमारः ।


नन्वेवं त्वदुक्ता एवोपपत्तयः सर्वप्राणीश्वरत्वं साधयन्ति, सुखाद्यात्मसंवेद्य
लक्षणत्वात् कर्मणः सुखाद्यदृष्टाणूनामपि च कर्मत्वात् कर्मप्रवर्तनाभ्युपगमात्


नन्वेवमित्यादि । पूर्ववदस्मिन् दर्शने न परितुष्य3829त उत्थानमित्यभिसम्बन्धः । ननु इत्यनुज्ञापने,
3830नु त्वदुक्ता एवोपपत्तयः प्रत्येकं सर्वप्राणीश्वरत्वं साधयन्ति, बाह्याध्यात्मिकसुखदुःखमोहमात्रत्वा
ज्जगतः सदसद्वेद्यमोहान्तरायभेदानां सुखादित्रयविपाकफलत्वानतिवृत्तेस्तदात्मसंवेद्यलक्षणत्वात् कर्मणः,
सुखादिसंवेदनेनैव हि तत्कारणभूतं कर्म स्वकार्येण फलेन लक्ष्यतेऽनुमीयते सामान्यतोदृष्टानुमानेन देशान्तर-२४०-१
प्राप्त्या इव आदित्यगतिः । अतः कारणे कार्यस्य सत्त्वात् कार्ये कारणोपचारात् सुखादयः कर्म, अन्नप्राण
त्ववत् । अदृष्टं धर्माधर्माख्यं परैरिष्टमेव कर्मेति, आत्मापि कर्म, कथम् ? तच्चादृष्टमात्मनो रागादिकर्मविपाक
परिणत्यवस्थस्य प्रयोगपरिणामात् कर्मतामापन्नम् । पुनरपि सुखाद् रा3831गादि, ततः पुनः कर्म, ततः सुखादि
फलम् । तच्च जीवपरिणामात्मसात्कृतकार्मणयोग्यपरिमाणपरमाणुसमूह एवात्मस्थमेकीभूतं चा3832त्मना,
यथोक्तम्—

योगैः सकृत् स्वयोगाद् मूर्तः 3833सन् बाह्यमर्थमादत्ते ।

आत्तस्य चानुभवनं बन्धं प्रति स च ततोऽनन्यः ॥

तच्च संवेद्यम्, कर्तुः संवेदनात् । ततः संवेद्यलक्षणत्वात् कर्मणः सर्वेश्वरतेति सम्भन्त्स्यते । कर्म
हि प्रतिप्राणि नियतकर्तृकं स्वविपाकसुखादित्वेन संवेद्य3834म्, तेनाणूनामेव कर्मत्वपरिणामापन्नानामात्मैकीभावेन
वेदनं संवेदनम्, तेन च पुरुषेण तेषां तथा प्रयोजनात् कर्तृत्वम्, अतः सुखाद्यदृष्टाणूनामपि च
कर्मत्वा
दित्याह । प्राक् प्रतिपादितं हि द्व्यणुकत्र्यणुकादिसंयोगैः पृथिव्युदकव्रीह्यङ्कुरादिपरिवृत्तिरूपेणात्मन
स्तेषां चैकत्वं सर्वसर्वात्मकत्वं च । तस्मात् कर्मकारणां जगत्प्रवृत्तिं साधयन्ति त्वदुक्ता एवोपपत्तयः ।
इतश्च कर्मपूर्वकं जगत्, कर्मप्रवर्तनाभ्युपगमात् सर्वप्राणिनाम्, कर्मवशादेव हि प्राणिनः शुभाशुभ
जातिकुलरूपाद्युत्कर्षापकर्षाः । यथोक्तम्--


  1. ॰ष्यता प्र॰ ॥

  2. नन्व त्व॰ प्र॰ ॥

  3. रागादि फलं फलादि ततः पुनः कर्मय॰

  4. वात्मना प्र॰ ॥

  5. सत्वाह्यमर्थ॰भा॰सत्वाद्यमर्थ॰ य॰

  6. ॰द्यं तेनाणू॰ प्र॰ ॥