336

सर्वप्राणिनां कर्तृत्वात् कर्तुरेव भवितृत्वाभ्युपगमात् तस्यैव भवितुश्च प्रयोजनात्
सर्वेश्वरता ।


ईश्वरात्तु कर्मणः प्रवर्तनं किं सतः, असतः ? तद्यद्यभूतस्य ततोऽद्वैतं तस्यापि
तदात्मकत्वात् । भूतस्य चेत् प्रागपि तदस्ति, तच्च ईश्वरात्मैव तथाभूतेस्तथाप्रवृत्ते
स्तदापत्तेः, तथापि सुतरामद्वैतम् तदात्मकत्वादेव । अथ यस्मै प्रवर्त्यते यथा तस्मात्
तर्हि तत् तथाभूतं तद्वशात् तथेश्वरप्रवृत्तेः, ततस्तस्य प्रवर्तने स एवेश्वरः ।


स्वकर्मयुक्त एवायं सर्वोऽप्युत्पद्यते नरः ।

स तथा क्रियते तेन न यथा स्वयमिच्छति ॥

यथाहारः काले परिणतिविशेषक्रमवशात्

२४०-२ सुखं पथ्योऽपथ्योऽसुखमिह विधत्ते तनुभृताम् ।

तथा धर्माधर्माविति विगतशङ्कामपि कथां

कथं श्रोतुं 3835नेया विषयविषवेगक्षतधियः ? ॥

किञ्चान्यत्, कर्तृत्वात् प्राणिनाम् इति वर्तते । मा भूवन्नकृताभ्यागमकृतप्रणाशकर्त्रन्तरफल
सङ्क्रान्त्यादयो दोषा इति सदसदाचाराः प्राणिन एव कर्तारो भोक्तारश्चाभ्युपगन्तव्याः, अन्यथा हिताहित
प्राप्तिपरिहारार्थानां शास्त्राणामानर्थक्यप्रसङ्गात् । ततः कर्तुरेव भवितृत्वाभ्युपगमात् । कः कर्ता ? यः
स्वतन्त्रः । यः3836 स्वतन्त्रो भविताऽपि स एव । स्यान्मतम्--नन्वीश्वरः प्रयोक्तृत्वात् कर्तेत्युक्तम्, नेत्युच्यते,
तस्यैव भवितुश्च प्रयोजनात्, सर्वः प्राणी प्रत्येकं भविता प्रयोजयति आत्मना आत्मानं स्वकृतकर्म
विपाकात्मकरागद्वेषभयगौरवादिधर्मचोदितः । यथोक्तम्—

प्रयत्न एवापरजन्मजोऽयं सूर्यादयः श्राद्धजनप्रवादाः ।

उत्पश्यतामेव हि दैवसिद्धिमुत्साहिनं श्रीर्भजते मनुष्यम् ॥ इति ।

तस्मात् तन्वादिप्रधानाण्वादिषु सत्स्वपि प्रवर्त्येषु तेषामेव कर्मसाद्भूतानां प्राणिनां भवितृत्वात् तत्तदापत्तेः
सर्वप्राणिनां स्वातन्त्र्यात् कर्मवशप्रेरितकार्यकारणभावेन सततभवनात् तथाप्रवर्तकस्यैकैकस्य सर्वात्मकत्वात्
सर्वेश्वरता इति साधूक्तम् ।


इदानीं त्वदिष्टेश्वरकारणत्वे तु दोषा उच्यन्ते --ईश्वरात् त्वित्यादि । इदं चिन्त्यम्--ईश्वरात्
कर्मणः प्रवर्तनं किं सतः, असतः ? किं चातः ? तद्यद्यभूतस्य कर्मण ईश्वरः प्रवर्तकः ततश्चाद्वैतं
पुरुषादिवादवत् प्राप्तं तस्यापि तदात्मकत्वात् कर्मणोऽपीश्वरात्मकत्वादीश्वरस्यैव क3837र्मत्वेनोत्पत्तेः । भूतस्य
चेत्,
अथ भूतस्य कर्मण ईश्वरात् प्रवृत्तिस्तत एतत् प्राप्तम् --प्रागपि तत् कर्मास्ति, कारणे कार्यस्य
२४१-१ सत्त्वात् । तच्चेश्वरात्मैव, तनुकरणादिभाव्यवत् तथाभूतेस्तथाप्रवृत्तेस्तत्तदापत्तेरित्या3838दिभिर्युक्तिभिः,
तथापि सुतरामद्वैतं तदात्मकत्वादेव पुरुषावस्थावदीश्वरभाव्यतदात्मकाण्वादिभवनवद् वा । अथ यस्मै
प्रवर्त्यते यथा ।
अथाचक्षीथाः--न तत् कर्मेश्वरात्मकम्, किं तर्हि ? यस्मै प्राणिने शुभमशुभं वा न3839
नारकतिर्यगमरविचित्रभेदरूपेण येन येन प्रकारेण प्रवर्त्यते तेनेश्वरेण तत्तत्प्राण्यात्मकं तदिति । अत्रोच्यते
तस्मात् तर्हि तत् तथाभूतम्,
प्रत्येकं प्राणिनः कारणात् तस्मात् तस्मात् तथा तथा भूतमित्यर्थः,

  1. नेमा प्र॰ ॥

  2. कः स्व॰ प्र॰ ॥

  3. कर्मत्वेनोपपत्तेःय॰

  4. ॰दियुक्तिभिःभा॰

  5. नरकतिर्य॰ प्र॰ ॥