378

तत्र सम्मूर्च्छितसर्वप्रभेदनिर्भेदं बीजं द्रव्यम्, तथाभवनविनाभूतसन्निधि
वस्तुत्वव्यक्तिः क्रिया, प्रवृत्तिः क्रिया भावः, वदनगतनियतक्रमाकाररूपपरिमाण
मायाकारकपताकिकासन्ताननिष्कालवत्, मायाकारकवद् द्रव्यादनुत्पादव्यया
त्मकात् पृथिव्यादेर्मूलादयः, यथास्वं पताकिकामालावत् क्रियात्मानः । अद्रव्य-


तस्माच्च न एकं सर्वम् अनन्तरनयदर्शनम्, न सर्वमेकं पुरुषनियत्यादिविकल्पविधिविधिनयदर्शनम्,
नापि विध्युभयदर्शनं क4217र्त्रकर्तृभूतं प्रकृतिपुरुषमिदम्, नाधिष्ठात्रधिष्ठेयमिदमितीश्वरकारणं प्रधानोपसर्जनभूतं
प्राङ्निर्दिष्टम्, किं तर्हि ? उभयं कर्तृ भवनस्य प्रधानं च तुल्यबलत्वादस्य भावो भवतीति सामान्येन,
२६९-१ किं पुनस्तदुभयमित्यत आह --द्रव्यं भावश्च । अत्र भावशब्दः क्रियावचनः 4218क्रिया भावो धातुः पा॰ वा॰
१ । ३ । १
इति लक्षणात् ।


तस्माद्द्व4219यं द्वयं सर्वं घटपटादि भवति पचत्यादिवत् । तत्र सम्मूर्छितसर्वप्रभेद4220निर्भेदम्, सम्मूर्छिताः
संसृष्टाः अविनिर्भागेन सर्वे प्रभेदाः पचिपठिभुजिग4221म्यासिशय्यादयः कृष्णगौरदन्तुरह्रस्वदीर्घतादयश्च यस्मिं
स्तत् सम्मूर्छितसर्वप्रभेदं तत् सर्वत्र स्वरूपस4222मवस्थानाद् निर्भेदं च त4223दगृहीततरङ्गादिप्रभेदसरःसलिलवत्
तत् तेषां बीजमाश्रयो द्रव्यमित्येतद् द्रव्यलक्षणम् । तथाभवनविनाभूतसन्निधिवस्तुत्वव्यक्तिः क्रिया,
तेन प्रकारेण पचिपठिगम्यादिना भवनं तथाभवनम्, तेन भवनेन विनाभूतः सन्निधिः शक्तिमन्मात्रावस्था
शक्त्यनभिव्यक्तिर्यस्य वस्तुनस्तत् तथाभवनविनाभूतसन्निधिवस्तु, तस्य भावो वस्तुत्वम्, त4224द्व्यक्तिः वस्तु
शक्त्यभिव्यक्तिः क्रिया इत्येतत् क्रियालक्षणम् । प्रवृत्तिः क्रिया भाव इति पर्यायकथनम् ।


तस्य द्वयस्य स्वतन्त्रस्य भावस्य निदर्शनम् --वदनगतेत्यादि यावद् निष्कालवदिति । मायाकारक
वदने व्यवस्थितः क्रमो यासामाकारा रूपाणि परिमाणानि च ता मायाकारकपताकिकाः, तासां सन्तानस्य
निष्कालवत् । पृ4225थक् तयोः स्वरूपव्याख्यानार्थमाह --मायाकारकवद् द्रव्यादनुत्पादव्ययात्मकात्
पृथिव्यादेर्मूलादय
इति जगद् दार्ष्टान्तिकं दृष्टान्तेन मायाकारकेण समीकुर्वन् द्रव्यं व्याचष्टे क्रियां च
यथास्वं पताकिकामालावत् क्रियात्मान इति च । या या स्वा यथास्वं पताकिकामाला अव्यवच्छेदेन
नीलपीतादिवर्णा ह्रस्वदीर्घादितनुस्थूलादिसंस्थानप्रमाणा नियता एव क्रमेण निष्कसन्ति तथा पचति गच्छति
इत्यादिक्रिया द्रव्याद् देवदत्तादेरिति । ततोऽन्या अपि च तास्तेन विना न भवन्ति, सोऽपि ताभिर्विना
२६९-२ न भवति, अथ च नियताकाररूपपरिमाणास्ताः स च तत्परिणतव्यक्तिरिति द्वयमपि भवतीति ।


एवं तस्मिन्नेव द्रव्यक्रियात्मनि वस्तुन्यन्तर्भावात् पदार्थान्तरकल्पनावैयर्थ्यम् क्रियामात्रत्वाद् गुणा
द्याश्रितपदार्थानाम् । द्रव्यजातिभेदपरिकल्पनावैयर्थ्यं च सर्वद्रव्याणां क्रियावत्त्वादिति तत्प्रदर्शनार्थमाह—

  1. कर्तृकर्तृभूतं प्र॰ ॥

  2. क्रियावचनो धातुः ।...भाववचनो धातुः । इति पाणिनीयवार्तिके १ । ३ । १ ॥

  3. वि॰ विना ॰द्द्वयं द्रव्यं सर्वं य॰॰द्द्वयं सर्वं वि॰

  4. ॰दं निर्भेदंय॰

  5. ॰गम्याशिशुपादयः प्र॰ ॥

  6. एतदन्तर्गतः पाठो भा॰ प्रतौ नास्ति ॥

  7. तदागृ॰य॰

  8. तद्व्यक्तिः वस्तुत्वव्यक्तिः वस्तुशक्त्यभिव्यक्तिःपा॰डे॰लीं॰

  9. पृथक्व तयोः प्र॰ । अत्र पृथक् च तयोः इत्यपि पाठः स्यात् ॥