415

द्व्यर्थता उक्तवत् । पदार्थो द्रव्यक्रिये । वाक्यमाख्यातशब्दः । तदर्थ उक्त उभय
भाक् । नयविनिर्गमसूत्रम्--अत्थित्तं अत्थित्ते परिणमति 4571गवतीसू॰ १ । ३ । ३२ इति ।


द्रव्यशब्दः किंसाधनोऽत्राभिप्रेत इति चेत्, उच्यते --द्रव्यमपि भावसाधनम्, यत् तद्२९५-२
द्रूयते केनापि यो द्रवति गच्छति सततं प्रवर्तते तस्य यद् द्रवणं गमनं सततप्रवृत्तिः स भावस्तद् भवनम्,
तत्साधनो द्रव्यशब्दः, कर्तृसाधनाविनाभाविभावसाधनव्याख्यानस्य सोपपत्तिकस्य विस्तरेण कृतत्वात् सैव
द्व्यर्थता उक्तवत्, द्रव्यक्रियात्म4572कद्व्यर्थता परस्पराविनाभाविनी करणादीनां तदव्यतिरिक्तस्वरूपत्वात्
सर्वत्र घटपटादिबीजाङ्कुरादिषु च सर्वैकात्म्यस्य सुभावितत्वादिति । पदार्थो द्रव्यक्रिये उक्तवत् इति
वर्तते । वाक्यमाख्यातशब्द इति, आख्यातं साव्ययकारकवाक्यमेक4573मिति वाक्यम्, तदर्थ उक्तः
वाक्यार्थ उक्तः उभयभाक् द्रव्यक्रियाद्व्यात्मकवस्तु भजते वाक्यार्थ इति विस्तरेणोक्तोऽनेन विधिनियम
भङ्गेन नैगमैकदेशद्रव्यार्थेन ।


नयविनिर्गमसूत्रम्--अत्थित्तं अत्थित्ते परिणमतीति, अस्तित्वं भावो भावेऽस्तित्वे परिण
मति । भावो भा4574व एव सततं वर्तते परितः समन्ताद् नमति परिणमति तं तं भावमापद्यते स4575दा कर्तृ
4576हित एव ।


इति उभयनयः पञ्चमोऽरः परिसमाप्तः ॥

  1. दृश्यतां पृ॰ २९६ टि॰ १ ॥

  2. ॰त्मद्व्य॰य॰

  3. ॰कविति प्र॰ ॥

  4. सप्तम्यन्तोऽयं निर्देशः ॥

  5. तदाय॰

  6. ॰सहित वेति उभयनयः पञ्चमोऽरः परिसमाप्तः प्र॰ । दृश्यतां पं॰ ५ ॥