379

द्रव्यवद्द्रव्यसंयोजनवियोजनोत्क्षेपणापक्षेपणादितथाभवनविशेषणसमवयनादयो
भवनमेव द्रवति जानाति इच्छति द्वेष्टि ध्वनति यतते संयुनक्ति वियुनक्ति
श्वेतते इत्यादि ।


पृथिव्यादिसंयोजनवियोजनोत्क्षेपणापक्षेपणतथाभवनविशेषणसमवयनादि
भवनेन विना न द्रव्यभेदाः सम्भवन्ति यावदन्त्यं द्रव्यम्, पृथिव्यादिना विना न
संयोजनवियोजनोत्क्षेपणापक्षेपणतथाभवनविशेषणसमवयनादयो न मूलादिभावो
वेति द्रव्यभावपरिग्रहः ।


एवं च कृत्वोक्तम्--न हि किञ्चित् स्वस्मिन्नात्मनि मुहूर्तमप्यवतिष्ठते वर्धते यावदनेन


अद्रव्यद्रव्यवद्द्रव्यसंयोजनेत्यादयः, गुणादयस्तावत् क्रियैव इति प्रागुक्तम्, अधुना4226प्युच्यते तद्द्वारेण जात्य
भेदश्च । द्विविधं हि द्रव्यम्--अद्रव्यमनेकद्रव्यं च । नास्य द्रव्यं समवायिकारणमित्यद्रव्यमात्माकाशकाल
दिक्परमाण्वाख्यम् । द्रव्यवद् द्रव्यं तु द्व्यणुकादि महापृथिवीपर्यन्तम् । तस्य द्विविधस्यापि द्रव्यस्य
जातिभेदाभावः, यस्मात् संयोजनं प्राप्तिः क्रिया परिणतिलक्षणा, सैव संयोगो गुणोऽण्वाकाशादीनाम्,
आत्माकाशादेरपि परिणमनक्रियावत्त्वादुक्तवदक्रियस्यासत्त्वात् । एवं वियोजनं विभागः क्रियामात्रं न गुणः ।
तथा रूप्यतेऽक्षिभ्यामिति रूपम्, रस्यते जिह्वयेति रसः, एवं गन्धस्पर्शशब्दा अन्ये च सङ्ख्यादयो नेया बुद्ध्या
सङ्ख्यायमानत्वात् । उत्क्षेपणापक्षेपणादीति ऊर्ध्वक्षेपणादिक्रिया द्रव्यधर्मो द्रव्यप्रभेदः । तथाभवनमिति
सत्तासामान्यं द्रव्यस्यैव समानस्य भवनम्, यत् समानेन भूयते । विशेषणमिति विशेषः क्रियैव येन नीलादिना
गमनादिना क्रियामात्रेण द्रव्यस्य विशेषेण भवनं स स विशेषः । समवयनं सम्बन्धः, सोऽपि संयोग एव,
सम् इत्येकीभावेनावयवानामवस्थानं तन्त्वादीनां पटादित्वेन समवाय इहेति कार्यकारणयोरेकीभवनम् ।
आदिग्रहणाद् या4227वत्समवायिद्रव्यं भेदात् समवायानन्त्यं दर्शयति षट्पदार्थप4228रिमाणाभावं परिणाम
धर्मानन्त्यात् क्रियागुणादिपदार्थानन्त्याच्च । भवनमेव भाव एव क्रियैव, न गुणादयः सन्तीति भवनशब्देन२७०-१
क्रियां दर्शयति । इदानीं द्रव्यं दर्शयितुकाम आह --द्रव4229तीत्यादि यावच्छ्वेतत इत्यादि कारकं तल्ल4230कारेण
कर्तृवाचिना द्रुज्ञेषिद्विषिध्वनियतिसंयुजिवियुजिश्वितीनां साध्यानां क्रियाविशेषाणां सकर्तृकाणामभिधानात् ।


तयोरन्योन्यरहितयोर्द्रव्यक्रिययोरभावप्रदर्शनार्थो ग्रन्थः --पृथिव्यादिसंयोजनेत्यादि 4231यावद् द्रव्य
भावपरिग्रहः ।
आदौ तावद् भवनेन क्रि4232यया भावेन विना न द्रव्यभेदाः सम्भवन्ति पृथिव्यादयो
यावदन्त्यं द्रव्यं परमाणुद्रव्यमिति, पृथिव्यादिनेत्यादि यावन्न मूलादिभावो वेत्युक्तानामेव द्रव्यभेदा
नामभावे संयोजनादयः क्रियाभेदा न सन्तीत्यादि तेनानिष्टा4233पादनम् । तस्माद् द्रव्यभावपरिग्रहो युक्त
इत्युपनयति, इतिशब्दस्य हेत्वर्थत्वात् ।


एवं च कृत्वेत्यादि यावदपायेन वा युज्यत इति भाष्यकारेण साङ्ख्यादाहृत्योक्तो ज्ञापकग्रन्थः

  1. ॰नाद्युच्यते प्र॰ ॥

  2. यावदवधारणे । २ । १ । ८ । यावन्तः श्लोकास्तावन्तोऽच्युतप्रणामा यावच्छ्लोकम् । इति पा॰ सिद्धान्तकौमुद्याम् ॥

  3. परिणामाभावं प्र॰ ॥

  4. द्रव्यती॰ प्र॰ ॥

  5. दृश्यतां पृ॰ १२६ टि॰ ७ ॥

  6. एतच्चिह्नान्तर्गतः पाठो य॰ प्रतिषु नास्ति ॥

  7. क्रियायाभा॰

  8. ॰ष्टानपा॰ प्र॰ ॥